________________
पुरतः प्रवहमाने हरितवर्णे नदीनीरे आसीत् । अनिमेषनयनाभ्यां तद् विलोकमानस्य तस्य मनः पूर्णतया केवलमेकेनैवाऽभिलाषेण पूरितमासीत् - नद्यां कूदित्वा जले निमज्जनेन स्वात्मनो विलयस्य ! । स्वात्मनि अनुभूयमाना दारुणा शून्यता किलेदानीं नदीजलस्य शीतलशून्यतायां प्रतिबिम्बते स्म तस्य । आम् ! अधुना स पर्यवसाने आगत्य स्थित आसीत् । तस्य कृते इदानीं स्वात्मन एवोन्मूलनम्, अकृतार्थसंरचनस्य स्वजीवनस्य विनाशनं, प्रक्षेपणं च विनाऽन्यत् किमपि नाऽवशिष्टमासीत् । तेनाऽनुभूतं यद् देवा अपि तमुपहसन्ति स्माऽधुनेति । अतः स्वात्मनो विनाश एव तस्य गतिरस्तीति चिन्तयति स्म सः । कामं मत्स्या मकरा अन्ये जलचराश्च तस्य शरीरं भक्षयन्तु नाम, सिद्धार्थनामकस्य शुनः शरीरं, एतस्योन्मत्तस्य, भ्रष्टस्य दुष्टस्य च शरीरं, एतस्य प्रमादिनोऽपव्ययिनश्चाऽऽत्मनः शरीरम् ! कामं च राक्षसा तच्छरीरं खण्डखण्डीकुर्वन्तु नाम !!
ततो विकृतेन मुखभावेन स जले दृष्टिं प्रासारयत् । तत्र च स्वमुखं प्रतिबिम्बितं विलोक्य स थूत्कृतवान् । ततो हस्तेन गृहीतं वृक्षावलम्बनं त्यक्त्वा स किञ्चित् परावृत्तः, येन कूदित्वा जले आपादमस्तकं पतेत्, नदीतलं च प्राप्नुयात् । ततः कूदितुं स किञ्चिदवनतः, अक्षिणी निमीलितवान् – मरणमभिमुखमासीत् !!
अथ तावता, तस्याऽन्तःकरणस्य गहनतमप्रदेशात्, तस्य श्रान्तजीवनस्याऽतीतं भित्त्वा, स कञ्चन ध्वनिं श्रुतवान् । केवलमेक एव शब्द आसीत्, अथवा केवलमेकमेवाऽक्षरमासीत्, यच्च स किमप्यविचिन्त्याऽस्पष्टतयोच्चारितवान् । तदासीत् सर्वेषामपि प्राचीनानां वेदमन्त्राणामादिरन्तश्च - ओम् - इति, यस्याऽर्थ आसीत् पूर्णः, पूर्णत्वं वा । यस्मिन् क्षणे ओम्-इति ध्वनिस्तस्य कर्णगोचरीभूतस्तस्मिन्नेव क्षणे तस्य प्रसुप्त आत्मा जागरित इवाऽभवत्, स च सहसा स्वचेष्टिते निहितं मौख्यं ज्ञातवान् ।।
एतेन सोऽत्यन्तं सन्त्रस्तोऽभवत् । अहो ! एतदर्थं सोऽत्राऽऽगत आसीत् ! स तथा मूढो जात आसीत्, तावान् व्याकुलोऽभवत्, तावांश्च शून्यचित्तो जातो यथा मृत्युमेवाऽभिकाङ्क्षन् स इहाऽऽगत आसीत् खलु ! बालिशतापूर्णैषाऽऽकाङ्क्षा तस्य चित्ते तथा प्रबलाऽभवत् यथा स शरीरं नाशयित्वा शान्ति प्राप्तुमिष्टवान् । किन्तु यदा 'ओम्'कारस्तस्य चैतन्यं व्याप्नोत्, स स्वीयं क्षुद्रत्वं दोषं च ज्ञातवान् तदा तन्मनसि प्रकटितः सर्वोऽपि सन्तापः, सर्वोऽपि मोहः, सर्वाऽपि च निराशा निष्प्रभावा अभवन् । ___पुनरपि तेन हृदय एव ओङ्कारस्य नादः कृतः फलतः परमब्रह्मणः शाश्वतचैतन्यस्य च भानं तस्याऽभवत् । यत् सर्वमपि दिव्यं स विस्मृतवानासीत् तत् सर्वमपि चेदानीं तस्य स्मृतिपथे पुनरवतीर्णम् ।
किन्त्वेतदपि भानं क्षणिकमेवाऽऽसीत् । यतोऽतीव परिश्रान्तः सिद्धार्थो नालिकेरवृक्षमवलम्ब्य तत्रैवोपविष्टः । तत ओङ्कारमेव जपन् स वृक्षमूले शीर्ष स्थापयित्वा गाढनिद्रया प्रसुप्तवान् ।
तस्य निद्रा गहना स्वप्नरहिता चाऽऽसीत् । दीर्घकालादेव स एवं नैव सुप्तवान् कदाचित् । यदा स जागृतस्तदा बहूनि वर्षाणि व्यतीतानीव प्रतिभातं तस्य । प्रवहतो जलस्य मृदुनिनादं स श्रुतवान्, किन्तु स न स्मृतवान् यत् कुत्र स इदानीमासीत्, नाऽपि, कथं सोऽत्राऽऽगतः - इति । स यदा उपरि दृष्टवान् तदा वृक्षान् नीलवर्णं चाऽऽकाशं दृष्ट्वा विस्मितोऽभवत् । ततश्च तेन स्मृतं यत् कुत्र सोऽस्ति कथं
७६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org