SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ इति निर्णयोऽनाबाधोऽव्याहतश्च । ज्ञानसागरगुरूणां त्रैवैद्यविषयोपदेशाश्रय इति तदणीयोमहिमाख्यानम् । ततो गोष्ठीविधानभूमिकल्पो विद्वद्विधानयोग्यायोग्यपरीक्षणसम्यग्विज्ञातवाङ्मयविद्वत्समागमोद्भवानन्दनन्दिश्चक्रे वक्रेतराशयैः । पश्चाच्छास्त्राभ्यासानुयोगावसरोदीर्णप्रतिभाविशुद्धबुद्ध्याभोगः १, सद्गुरुसमायोगः २, सद्गुरुविनयप्रयोगः ३, पुस्तकप्राप्तियोगः ४, प्रमत्ततावियोगः ५, सततोपयोगः ६, शुद्ध्यभियोगः ७, देहारोग्यभाग्यादीनि साधनान्यैदंयुगीनान्तेवासिवर्गविमृश्यतमान्याचख्युः ख्यातमाहात्म्याः ।। आख्याय च विद्वद्गोष्ठीगुणगणान् ज्ञानद्रुमोन्मूलनमातङ्गत्रिवर्गविध्वंसनव्यग्रदपाकरणप्रकरणेऽनेकाननणुप्रभाववारांनिधीन् पुरुषसिंहान् यथार्थावाप्ताभिधानश्रीमद्दिवाकरवादिचक्रचूडामणिप्रभश्रीमल्लवादिमनोहारिभद्रभरनिर्जितमोहमोषकोपद्रवश्रीमद्धरिभद्र-सर्वविसंवादिनिर्मूलस्वकल्पनाशिल्पिमात्रनिर्मितग्रन्थततिवितननविज्ञापगतलज्जदिगम्बरमदनिर्मथनदेवसूरिसख्यश्रीदेवसूरि-ब्रह्मगोचरातिगनिरवद्यचातुर्विद्यविधानविज्ञामारिपटहोद्घोषणख्यापिताभयप्रदत्वगुणमहिममहीपालकुमारपालकुमुदकौमुदीपतिश्रीहेमचन्द्राचार्यप्रभृतीन्, ज्ञानरत्नरत्नाकराणां कृत्यमतनुप्रभावं, गुणोपार्जनावश्यकतां गुणवद्गृह्यतां लोकानामाराध्यतमतां च गुणिनामाविर्भावयामासुः । लक्षणगोष्ठ्यामन्तरेणे अध्ययने इति धातुम् अधीये इति १, उच्यतीति २, व्याघ्रा इति ३; जागृक् निद्राक्षय इत्यन्तरा जागर्ति इत्यादीनि त्याद्यन्तानि; पञ्चड्डलानीतिसमासे त्यादौ त्रयोदशरूपाणि धातोरेकस्या-ऽसंसृष्टानि; विना गर्मि जगामेति; मारिरेकाम, मामिनीभाम, माद्भ्यां (माभ्यां), दधिसेक् इत्यादीनि रूपाणि; गतिकारक इति, नित्यादन्तरङ्ग बलीय इति च न्यायः । छन्दोनुशासनगोष्ठ्यां मागध्यां ५७५००००००, उपहासिन्यां ४५५९७५००००, आर्यायां ८२९२०००० भेदाः; प्रस्तारादयः षट् प्रत्ययाः ।। काव्यगोष्ठ्यां काव्यलक्षणं, शब्दार्थभेदाः, दोषा, गुणा, भूषणानि, अर्थवैचित्र्यहेतवः । प्रमाणगोष्ठ्यां च प्रामाणिकभेदाः, देवगुरुधर्मतत्त्वलक्षणानि । प्रस्तावनामात्रमेतदखिलमर्हद्देवनिर्ग्रन्थगुरुनिष्कलङ्कधर्मयथास्थितवस्तुतत्त्वप्रतिपादनस्य । देवलक्षणं तत्र तावद्विपश्चिद्वन्दवेद्यविद्यावर्यता निजगदू रागादिदोषानालीढत्वममलकेवलपरिवृढितां, प्रतिहतात्मगुणप्रहननप्रत्यलघातिकर्मनिचयतां, प्रशमामृतनिमग्नवदनेन्दुविकस्वरारविन्ददलप्रख्यनयनद्वन्द्वज्ञापितक्रोधादितिरस्कृति, बालकमनीयकामिनीशून्याङ्कानुमापितस्मरतिरस्कार, द्विषद्दारणदृप्तास्त्रायोगख्यापितदोषप्लोषम् । व्यतिरेके निदर्शयामासुरन्येषां विस्तरतोऽतथात्वमरक्तद्विष्टानां देवतत्त्वपरीक्षणाय परीक्षाचणाः । प्रोक्तवन्तः प्रवचनसौधस्तम्भश्रीमद्धारिभद्रीयलोकतत्त्ववचांसि नेत्रनिरीक्ष्येत्यादितो यस्य निखिलाश्च दोषा इत्येतदन्तं श्लोकितदेवतत्त्वाय स्तोकश्लोकास्पदाञ्छ्लोकान् । तथेशः किमिति, ब्रह्मा चर्माक्षसूत्रीति च पद्ययुगल्यामलया परोक्तमप्यन्ववादिषुर्देवस्वरूपनिरूपकम् ।. प्रतिपादितौ परेण मनुष्यमात्रासर्वज्ञत्वाख्यावदेवत्वदर्शकौ निषेधाय देवत्वस्याऽसिद्ध्यादिदोषाघ्रातत्व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy