________________
कथा
बालकस्य देशभक्तिः मुनिरत्नकीर्तिविजयः
अय् ! कुत्र गच्छथ रे? - वप्रमुल्लङ्घ्य बहिर्गन्तुमुत्सुकान् त्रयोदशवर्षदेशीयान् पञ्चषांन् डिम्भान् मुख्यद्वारि स्थिता रक्षका: कठोरं पृष्टवन्तः । रक्षकाणां कठोररवेण सम्भ्रान्तचित्तास्ते बालकास्तत्रैव स्थिताः । ततश्च रघुनाथनामा साहसिको बाल उक्तवान् – 'पुरतः स्थित उद्याने आम्रफलान्यानेतुं गच्छामः ।'
'रे चलत, गृहं निवर्तयत... ! अकाण्डमेवाऽऽपदमामन्त्रयिष्यव । किं न जानीथ यदावश्यककार्यमन्तरेण वप्राद् बहिर्गमनं निषिद्धम् ?' - रक्षक उक्तवान् ।
'किन्तु...' रघुनाथो निवर्तनं नेच्छति स्म । सहाऽऽगता डिम्भास्तु रक्षककृतभर्त्सनेनैव प्रतिगन्तुं सज्जा आसन् ।
'आस्तां किन्तु परन्तु वा... ! यूयं स्त बालाः । न वर्तमानसंयोगस्य गाम्भीर्यमभिजानीथ । प्रतिपलमत्र दुर्गे आङ्ग्लानामाक्रमणस्य भयं प्रवर्तते । चलत, शीघ्रं निवर्तयत' – रक्षकः समीपमागत्य हस्तसंज्ञया सूचितवान् ।
रघुनाथः क्षणं विचारयन् स्थितः । कथमप्याम्रफलान्यद्याऽऽस्वाद्यान्येवेति तस्य प्रबलेच्छाऽऽसीत् । किन्तु दुर्गरक्षकस्य वचनस्योल्लङ्घनं न हितायेति शान्त्या तं बोधयितुकामः स्वपरिचयं दत्तवान् –
'अहं दुर्गपालस्य लक्ष्मणरावस्य पुत्रो रघुनाथोऽस्मि । अस्माकं बहिर्गमनं यद्यमस्यत तर्हि महती कृपा भविष्यति । त्वरयैव वयमाम्रफलान्यानीय प्रत्यागमिष्यामः' इति ।
परिचयं प्राप्य रक्षकः किञ्चिच्छिथिल इव जातः । स उक्तवान् -
'वत्स ! लक्ष्मणरावस्य त्वं पुत्रोऽसीति तवैकाकिनो गमनमनुमिनोमि । किन्त्वन्यैर्बालैस्तु निवर्तनीयमेव' - इति ।
रघुनाथस्तु मित्राणि परित्यज्य गन्तुं नोत्सुक आसीदतः साशङ्कः स तत्रैव स्थित्वा मित्राणि प्रति दृष्टिं कृतवान् ।
वयस्यास्तन्मनोगतमभिज्ञाय कथितवन्तः – 'रघो ! त्वमेकाक्येव गत्वाऽऽम्रफलान्यानय । वयं हि निवर्तयामः ।'
११८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org