________________
सहसा स सनिःश्वासमवदत् – 'यदि यम स्वाम्ये इतोऽप्यधिका भूः स्यात् तदा वरम् !' । 'किमर्थं भोः! ? एतावताऽपि भवत्सकाशे पर्याप्ता भूरस्ति' – गुरुणा पृष्टम् । 'यद्यधिका भूः स्यात् तदाऽधिका गा: पालयेयम्' इति तेनोक्तम् । 'ततः किं स्यात् ?' 'गा विक्रीय धनमर्जयेयम्' । 'तेन किं स्यात् ?' 'अधिकां भुवं क्रीत्वाऽधिकाधिका गाः पालयेयम् !!'
[त्रयमप्येतत् One Minute nonsense
इति पुस्तकाधारेण लिखितम् ।]
(४) अल्पः परिश्रम.......
मुल्ला-नसीरुद्दीनो यद्यपि मेधावी सुचतुरश्चाऽऽसीत् तथाऽपि तद्व्यक्तित्वमालस्येन संभृतमासीत् । अत आदिनं किमपि कार्यमकुर्वन् स खट्वायां शयानो भवति स्म विविधं च कल्पनाजालं रचयति स्म । तत्पत्न्या गृहकार्याणि तु कर्तव्यान्येव भवन्ति स्म, बहिस्तादपि तयैव कार्यार्थं धावितव्यं भवति स्म । अत एकदा कुपितया तया सभर्त्सनं स उक्तः - 'किमित्यादिनं भवान् शयितः सन् दिवास्वप्नान् पश्यति ? अहं तु कार्याणि कुर्वती सती भृशं श्रान्ता भवामि तथाऽपि भवान् न किमपि लक्षयति ? अद्य भवान् विपणिं गत्वा पञ्च किलोमितांस्तण्डुलान् क्रीत्वा समानयतु, अन्यथाऽद्य भोजनं नैव पक्ष्यते !'
___ 'भोजनं विना कथं स्थातव्य'मिति चिन्तयन् नसीरुद्दीनो विमनस्कोऽपि सन् स्यूतं गृहीत्वा विपणि प्राप्तः । तत्र च धान्यविक्रेतुरापणं गत्वा तण्डुलस्य मूल्यं पृष्टवान् । आपणिकेनोक्तं 'किलोमितस्य दश रूप्यकाणी'ति । अनेनोक्तं – ‘एवं, तर्हि पञ्च किलोमितान् ददातु' । आपणिकेन चिन्तितं – 'जनोऽयं न कदाऽपि क्रयणार्थमागच्छति । प्रायशस्तत्पत्न्येव समागच्छति । मूर्खश्चाऽसौ परिलक्ष्यते । अतो यद्यस्मै न्यूनं तोलयित्वा दद्यां तदाऽपि नैव जानीयात् सः' । ततश्च स तस्मै यथाकथमपि तोलयित्वा न्यूनान् तण्डुलान् प्रदत्तवान् ।
नसीरुद्दीनेन तल्लक्षित्वाऽऽपणिकाय कथितं – 'भोः ! किमिति न्यूनान् तण्डुलान् ददाति ?' तदा नसीरुद्दीनस्याऽऽलस्यप्रियतां स्मृत्वा तेनोक्तं – 'भोः ! भवताऽल्पीयान् भार उन्नेतव्यः स्यादित्यतः !' तच्छ्रुत्वा स्मयन् नसीरुद्दीनः स्यूतमुत्पाट्य तण्डुलमूल्यं चाऽऽपणिकाय प्रदाय प्रस्थितः । आपणिकेन तत्प्रदत्तं धनं गणयित्वोच्चैः कथितं – 'भोः ! भवता किमिति चत्वारिंशदेव रूप्यकाणि प्रदत्तानि ?' गच्छतैव तेनोक्तं – 'भवतो गणनपरिश्रमोऽल्प: स्यादित्यतः !!' |
११७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org