SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) गाम्भीर्यम् गुरोः शिष्येणैकेनैकदा कश्चन गभीरोऽपराधः कृतः । अतोऽन्यैः शिष्यैरनुयायिभिश्च चिन्तितं यदद्य गुरुरेनमवश्यं दण्डयिष्यति । किन्तु यदा मासे व्यतीतेऽपि गुरुणा न किमपि कृतं कथितं वा तस्य तदा केनचिच्छिष्येण गुरोस्तत् स्मारयतेव कथितं – 'यज्जातमस्ति तत् सर्वथैव नाऽर्हत्युपेक्षाम् । किं बहुना कथितेन ? यतो भगवताऽस्मभ्यं सर्वेभ्यो नेत्रे प्रदत्ते स्तः' । 'आम्', इति सस्मितं प्रत्युत्तरं ददता गुरुणा कथितं – 'तथा नेत्रच्छदे अपि !!' । (२) विवादस्य निवारणं नाम.... अन्यदा गुरुणोक्तं यदेते मानसचिकित्सका यद्यपि केषाञ्चित् प्रश्नानां विवादानां वा समाधानार्थमुपकारका एव तथाऽपि तेषां मुख्यं कार्यं तु विवादस्योपशमनमेव न तून्मूलनं निवारणं वा । तेषां कृते समाधानं नाम अन्यस्मिन् सुखकरे विवादे चित्तस्याऽभिमुखीकरणं, येन पूर्वतनाद् विवादाच्चित्तं निवर्तेत । अत्र च विषये स एकमुदाहरणं कथितवान् – एकस्मिन् बस्-याने कश्चन यात्रिकः स्वीयेऽङ्के किञ्चन महाभारयुतं वस्तु वृत्तपत्रसंवेष्टितं धारयन्नुपविष्ट आसीत् । 'एतत् किमस्ति भोः ?' – याननिर्वाहकस्तं पृष्टवान् । 'अहो ! एतदस्त्यप्रस्फुटितमग्निनगोलकास्त्रम् । अहमेतदग्निशमनकार्यालयं प्रति नयन्नस्मि' इति तेनोक्तम् । 'अतीव भयानकमिदमस्ति भोः ! । भवतैतादृशं वस्तु स्वोत्सङ्गे नैव धारणीयं कदाऽपि । भवत आसन्दस्याऽधस्तात् तत् स्थापयतु तावत् !!' (३) चक्रकम् एको भूस्वामी गुरोः पार्वे आगतः । गुरुणाऽपि तत्कक्षामवगत्य तेन सहाऽन्यान्यविषयक: संलापः कृतः । ११६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy