________________
'भवतु, यूयं गृहं गच्छत । मां च प्रतिपालयत । सर्वेषां कृते आम्रफलान्यानीयाऽऽगच्छामि' - इत्युक्त्वा रघुनाथ एकल एव वनं प्रत्यगच्छत् ।
ग्रीष्मर्तुरासीत् । सूर्योऽप्यग्निमेव वर्षयतीव । तादृशादसह्यतापाद् स्वरक्षणाय शिरोवेष्टनं स समीपवर्तिनि निर्झरे आर्द्र कृत्वा शिरसि च परिधायोद्यानं प्रति चचाल ।
कतिपयनिमेषानुद्याने वृक्षस्याऽन्वेषणं कुर्वन् स आम्रफलभारैर्नम्रीभूतमाम्रवृक्षमेकं दृष्टवान् । रघुनाथः शीघ्रमेव वृक्षमधिरूढवान् । आम्रफलानि चिन्वन् सन्नेव स किञ्चिद् दूरं पितरमागच्छन्तं दृष्टवान् । आनन्दः समुद्भूतस्तच्चित्ते ।
उत्साहितः स वृक्षस्थित एव पितरमाकारयितुमुद्युक्तो जातः, किन्तु किञ्चिद् दृष्ट्वा तूष्णीमेवाऽभवत् । यत्तेन दृष्टं तत्र तस्य विश्वास एव न जातः । स्वप्नोऽयमुत सत्यमिति विकल्पस्तस्य चेतसि समुद्भूतः । अक्षिणी मर्दयित्वा स सावधानतया दृष्टवान् यत् सत्यमेव तस्य पिता केनचिदाङ्गलाधिकारिणा सहाऽऽगच्छन्नासीत् ।
आङ्ग्लाधिकारिणा सार्द्ध स्वस्य जनकं दृष्ट्वा तस्य चित्तं भ्रान्तमिव जातम् । आङ्ग्लानां चातुर्येण धूर्तत्वेन च स सम्यक् परिचित आसीत् ।
प्रथमस्य स्वातन्त्र्यसङ्ग्रामस्य ई.स. १८५७तमवर्षस्य ते दिवसा आसन् । समग्रेऽपि वातावरणे व्याकुलता उत्तेजना च प्रसृते आस्ताम् । जना अपि यत्र तत्र सम्मील्य स्वतन्त्रतायै युध्यमानानां सैनिकानां शौर्यं क्रान्तिमेव च चर्चयन्ति स्म । आबालवृद्धेषु जनेषु स्वदेशाभिमानं जागृतमासीत् ।
रघुनाथस्तु प्रायः त्रयोदशवर्षदेशीय एवाऽऽसीत् । का नाम क्रान्तिरित्यपि स सम्यग् नाऽवबुध्यति स्म । किन्तु, 'मातृभूमिरस्माकमाङ्ग्लशासकानामधीना वर्तते । तां च स्वतन्त्रां कर्तुं कारयितुं वा जनाः स्वातन्त्र्यान्दोलने भागं निर्वहन्ति' इति स जानाति स्म ।
तस्य पिता लक्ष्मणरावो हि क्रान्तिकारिणां सेनापतेः 'तात्याटोपे'महोदयस्य सैन्ये नायकपदारूढ आसीत् । तात्याटोपेमहोदय आङ्ग्लेभ्यः ग्वालियरस्य दुर्गं गृहीतवानासीत् । तत्र च तस्य पितरं दुर्गपालत्वेन नियुक्तवानासीत् । अतस्तद्गृहेऽपि बहवः क्रान्तिकारिणस्तत्पित्रा सह चर्चार्थं समागच्छन्ति स्म । रघुनाथोऽपि तेषां वार्तालापं सावधानं शृणोति स्म, तेन च तस्य चित्तमानन्दमनुभवति स्म । 'अहमप्येतादृशो देशभक्तो भविष्यामी'ति मनोरथमपि सेवते स्म सः ।
ग्वालियरस्य दुर्गस्य ह्यत्यन्तं व्यूहात्मकं महत्त्वमासीत् । तत्र प्राप्तेन पराजयेनाऽऽङ्ग्ला अत्यन्तं खिन्नाः कुपिताश्चाऽऽसन् । दुर्गं च पुनः स्वसात्कर्तुं ते बहुवारमाक्रमणं कृतवन्तः किन्तु तदा तदा घोरं पराजयमेव ते प्राप्तवन्तः । एवं वारं वारं जायमानेन पराजयेन ते चिन्तिता जाताः "किमत्र करणीयम् ? नैतद् बलेन ग्रहीतुं शक्यमतः कपटपूर्णेन चातुर्येणैव ग्राह्यम्" इति ।
११९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org