SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 'मम पिता आङ्ग्लेन सह ?' - विचारमात्रेण स खिन्नो जातः । गृहे क्रान्तिकारिभिः सह चर्चाकाले आङ्ग्लानां नाममात्रेणैव यस्य मुखं रक्तवर्णं जायते, हस्तश्च खड्गं ग्रहीतुमुद्युक्तो जायते, समग्रायामप्याङ्ग्लजातौ तीव्र तिरस्कारं दधाति... एतादृशोऽपि मम पिता केनचिदाङ्ग्लेन सह हसन्नेवं वार्तालापं करोति ? हस्ततालदानपूर्वकं चाऽट्टहासमपि कुर्वते ??? - एवं विचारयन् रघुनाथः स्वं घनासु शाखास्वन्तरितं कृतवान् येन कस्याऽपि दृग्गोचरो न स्यात् । आङ्ग्लाधिकारिणा सह संलपन् लक्ष्मणराव तत्रैवाऽऽगच्छन्नस्ति यत्राऽऽम्रवृक्षे रघुनाथ उपविष्ट आसीत् । तस्यैव च वृक्षस्याऽध आगत्योभावपि तौ स्थितौ । अथ परस्परं जायमानो वार्तालापः स्पष्टतया रघुनाथस्य कर्णगोचरीभवति स्म । आङ्ग्लाधिकारी कथयन्नासीत् - 'लक्ष्मणराव ! एष दुर्गः कथमपि हस्तगतः करणीयोऽस्माभिः । किन्त्वस्माकं सर्वानप्याक्रमणान् तात्याटोपे विफलयति । तस्य सैनिकैस्तु हाहाकारः प्रवर्तितः सर्वनाऽस्माकं मध्ये । सहसैवाऽऽक्रमणं कृत्वा त्वरितमेव तिरोभवन्ति ते । परिणामतो हानिस्त्वस्माभिरेव वोढव्या भवति ।' 'महोदय ! चिन्ताकुलो मा भवतु । मदर्ह कार्यं चेत् सूचयतु । इदानीमहमेव दुर्गरक्षकोऽस्मि । मदधीनः सैनिकानां दलो ममाऽऽदेशं पालयितुं बद्धप्रतिज्ञोऽस्ति ।' – यद्यपि मन्दध्वनिना कथितवानासीद् लक्ष्मणराव: किन्तु रघुनाथेन तत्स्पष्टतया श्रुतम् । तस्य नेत्रे विस्फारिते जाते । "वाह ! एवं चेत् कार्यमस्माकं सरलमेव जातम् । भवन्तं प्रत्याभारप्रदर्शनं तु न पर्याप्तमस्ति !" - आङ्ग्लाधिकारी स लक्ष्मणरावं मधुमधुरया कपटगिरा प्रशंसितवान् । अनेनं तु लक्ष्मणरावोऽपि प्रसन्नो जातः । "लक्ष्मणराव ! भवति सहायके सति न कमप्यन्यमपेक्षामहे वयम् । कथयतु कीदृशं साहाय्यं भवान् करिष्यति' - किञ्चिद् विचार्याऽऽङ्ग्लाधिकारी कथितवान् । तच्छ्रुत्वा लोभाविष्टया दृष्ट्या लक्ष्मणरावस्तमधिकारिणं प्रति दृष्टवान् । स चाऽधिकारी तस्याऽऽशयमवबुद्धवान् - ओह, ज्ञातं भवदपेक्षितम् - इत्युक्तवांश्चाऽपि । स्वप्रावारकात् स लघुस्यूतमेकं निष्कासितवान् । तेन जायमानेन नाणकानां रणत्कारेण लक्ष्मणरावस्य नेत्रे दीप्ते जाते । तद् ग्रहीतुं स आक्रमणमिवैव कृतवान् । किन्तु तेनाऽधिकारिणा स्यूतं दूरीकृतम् । कपटहासेन चोक्तवान् – “अम्...हम्...प्रथमं तावत् कथयतु यत् कीदृशं साहाय्यं कर्तुं भवान् शक्नोति?" लक्ष्मणरावस्य मुखे क्षोभः प्रसृतः । तं गोपयितुमिव स हसन्नुक्तवान् – “होम्स् महाशय ! मयि विश्वसतु । ग्वालियरस्य दुर्गो भवदधीन एव इति निश्चित: !" अथ सोऽधिकारी धनस्यूतं लक्ष्मणरावायाऽपितवान् । तद्गतनाणकानां भारेणैव तस्य मुखेऽधम आनन्दः प्रसृतः । उत्साहितः स कथितवान् - १२० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy