________________
पृष्ठत आगत आसीत् । यदा स वासुदेवस्य प्रसन्नं वदनं, स्मितमयीं मुखरेखां, भासुरे च लोचने दृष्टवांस्तदा सोऽपि स्मितं कृतवान् । इदानीं स स्वपुरतः पतिते कदलीफले दृष्टवान् । स ते गृहीत्वा तत एकं वासुदेवाय दत्तवानपरं च स्वयं खादितवान् । ततः स मौनमेव वासुदेवेन सह वनं गतवान्, ततश्च नावा नदी समुत्तीर्य स्वीयं कुटीरं प्राप्तवान् । अथाऽपि द्वयोरेकतरोऽपि प्रवृत्तस्य विषये न किमप्युक्तवान्, बालकस्य नामाऽपि नैव गृहीतवान्, तस्य गमनमधिकृत्य न किञ्चिदुदितवान्, व्रणविषयेऽपि च नोच्चरितवान् । सिद्धार्थो निजां शय्यां गत्वा सुप्तवान्, यदा च वासुदेवस्तस्मै किञ्चिन्नारिकेलजलं दातुमन्तर्गतस्तदा तेन दृष्टं यत् सिद्धार्थो गाढनिद्रायां शयितोऽस्तीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org