SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ यदा स नगरस्य राजमार्ग प्राप्तस्तदा तदुपान्ते स्थितं सुन्दरं क्रीडोद्यानं - यदेकदा कमलायाः आसीद् - दृष्ट्वा तस्य द्वार्येवाऽतिष्ठत् स्थिरतया । अत्रैव स ऐदम्प्राथम्येन कमलां शिबिकयाऽत्राऽऽगच्छन्ती दृष्टवान् आसीत् । स समग्रोऽप्यतीतस्तस्य मानसचक्षुषोः पुरतः उपस्थितः इव । पुनरपि स स्वं दीर्घकूर्चयुतजीर्णवस्त्रधर-धूलिधूसरित-तरुणश्रमणत्वेन प्रत्यक्षीकृतवान् । स चिराय तत्रैवाऽवस्थायोद्यानं निरीक्षितवान्, तत्र च बहवो बौद्धभिक्षवस्तेन सुन्दराणां वृक्षाणामधस्तात् सञ्चरन्तो दृष्टाः । स तत्रैव तिष्ठन् स्वीयमतीतं जीवनं चित्रपटेषु चित्रितां कथामिव विलोकितवान् । तत्रोद्याने स्थितान् भिक्षून् दृष्ट्वा स युवानं सिद्धार्थं स्मृतवान् कमलया सहितं च तं रमणीयवृक्षराजीमध्ये पर्यटन्तं विलोकितवान् । स स्पष्टतया स्वं तत्रोद्याने कमलया सत्कृतं सर्वप्रथमतया च तस्याश्चुम्बनं स्वीकुर्वन्तं दृष्टवान् । स तदपि स्मृतवान् यथा कथं तेन स्वीयाः पुरातनाः श्रामण्यदिनाः सदएँ सावज्ञं च समीक्षिता आसन्, कथं च तेन सगर्वमुत्सुकतया च सांसारिकं जीवनं प्रारब्धमासीत् । स कामस्वामिनं, सेवकान्, भोजनसमारम्भान्, द्यूतक्रीडकान्, सङ्गीतकारांश्च मानसे प्रत्यक्षीकृतवान् । कमलायाः गायकपक्षिणं पञ्जरस्थितं चाऽपि स विलोकितवान् । एवं च सर्वमपि जीवनं स पुनरपि जीवितवान्, संसारं श्वसितवान्, वार्धक्यं स्पृष्टवान्, श्रान्तो जातः, निर्वेदमनुभूतवान्, मरणमभिलषितवांश्च; ततश्च पुनरपि पवित्रमोङ्कारं श्रुतवान् । चिरायोद्यानद्वार एवाऽवस्थानानन्तरं सिद्धार्थः लक्षितवान् यद् योऽभिलाषस्तमिहाऽऽगन्तुं प्रेरितवान् स सर्वथा मौर्यपूर्ण आसीत्, निजपुत्रं स कदाऽपि बोधयितुं समर्थो नाऽऽसीत्, निजजीवनपद्धतिं च बलात् तस्मिन्नारोपयितुमुचितं नाऽऽसीत् । स पलायितं बालकं प्रति व्रणं प्रतीव गाढं प्रेमाऽनुभूतवान्, समकालमेव चिन्तितवांश्चाऽपि यदयं व्रणो नेदानीं सपूयः कर्तव्यः किन्तु तस्य विरोपणं कर्तव्यमासीत् । किन्तु तस्मिन् समये स व्रणो नैव विरूढः, अतः स दुःखितः एव तत्र स्थितः । यदर्थं स्वपुत्रमनुसृत्य स इहाऽऽगत तत्प्राप्तेः स्थाने तेन केवलं शून्यता प्राप्ताऽऽसीत् । सदुःखं स तत्रैवोपविष्टः । स्वहदये किञ्चन म्रियमाणं सोऽनुभूतवान् । स तत्रेदानीं सुखं स्वध्येयपूर्ति वा नैव दृष्टवान् । अतः सर्वथा विषण्णः स प्रतीक्षारतः उपविष्टः । नद्याः सकाशात् स बहु शिक्षितवानासीत् – प्रतीक्षां कर्तुं, धैर्यं धत्, श्रोतुं च । स तत्र धूलिमयेवम॑नि निष्ण्णः श्रोतुमारब्धः । स दुःखितया म्लानतया च स्पन्दमानं स्वहृदयं श्रुतवान् ततः प्रकटन्तं च कञ्चन ध्वनि श्रोतुं प्रतीक्षितवान् । स दीर्घकालं यावत् पादावाकुच्य श्रवणार्थं प्रयतितवान् किन्तु किमपि नैवोपलब्धवान्, ततश्च कमपि मार्गं न दृष्ट्वाऽन्ते स स्वं शून्यतायां निमज्जितवान् । यदा च स स्वीयं व्रणं तीक्ष्णतया व्यथयन्तमनुभूतवान् तदा स 'ओम्' - इति शब्दं जपितवान्, स्वहृदयं च ओङ्कारनादेन पूरितवान् । उद्यानस्था भिक्षवस्तं चिरात् तथा निषण्णं दृष्ट्वा तन्मस्तकं च धूल्याऽवगुण्ठितं विलोक्य करुणार्द्रा जाताः, तेषामेकतमश्च तन्निकषा समागत्य द्वे कदलीफले तत्पुरतो मुक्तवान् । किन्तु वृद्धजनः स ते नैव लक्षितवान् । एतावता तस्य स्कन्धोपरि कस्यचन हस्तस्य स्पर्शोऽभवत् । एतेन स जागृतोऽभवत् । स इमं मृदं सचिन्तं च स्पर्शमभिज्ञातवान् झटिति च स्वस्थोऽभवत् । तत उत्थाय स वासुदेवमभिवादितवान् यस्तस्य ९८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy