________________
द्वितीयदिने प्रभात एव सोऽदृश्यो जातः । तेन सह, यस्मिन् द्विवर्णे करण्डके तौ द्वौ नाविको भाटकतया प्राप्तं धनं रक्षतः स्म, स करण्डकोऽपि न दृश्यते स्म । बहिरागत्य दृष्टं तावन्नौरपि घट्टे नाऽऽसीत् । सिद्धार्थेन सम्यङ् निरीक्षिते ज्ञातं यन्नौस्तु परस्मिन् तटे स्थिताऽस्तीति । अर्थात् स बालकः पलायितः ।
'मया तत्पृष्ठतो गन्तव्य'मिति पूर्वदिने बालकस्य कटुशब्दैर्बहुव्यथितेन सिद्धार्थेनोक्तम् । ‘स बालकः एकल एवाऽरण्यमध्ये कथं यास्यति ? तत्र तस्य कश्चिदपायोऽपि स्यात् खलु ! । अतो वासुदेव ! आवाभ्यां तस्य पृष्ठे गमनार्थमवश्यं तरण्ड एको निर्मातव्य एव' ।
'अवश्यं निर्मातव्यस्तरण्डः' - वासुदेव उक्तवान् । 'परं स अपरतटे स्थितां नौकामानेतुं निर्मातव्यो न पुनर्बालकस्य पृष्ठतो गमनार्थम् । गच्छतु नाम सोऽधुना मित्र !, न सोऽस्ति शिशुरितोऽपि, स स्वयं स्वं सम्भालयितुं सुष्ठ जानात्येव । स नगरं प्रति गच्छन्नस्ति, तच्च सम्यगेवाऽस्ति । मा विस्मार्षीदेतद् यद् - भवान् यत्करणमुपेक्षितवान् तदेव स कुर्वन्नस्ति । स स्वीयं रक्षणं कुर्वन् निजमार्गे एव गच्छन्नस्ति । किन्तु सिद्धार्थ ! अहं पश्यामि यद् भवान् खिन्नोऽस्ति । यां पीडां दृष्ट्वा जनेन हसितव्यं तथा भवानपि स्वस्मिन् हसिष्यत्येव तयैव पीडया भवान् खिन्नोऽस्ति ननु !' ।
सिद्धार्थः किमप्युत्तरं न दत्तवान् । स कुठारं गृहीत्वा तरण्डनिर्माणार्थमपेक्षितं काष्ठं छेत्तुमारब्धस्ततश्च वासुदेवसाहाय्येन तृणनिर्मितरज्ज्वा वंशखण्डान् बद्ध्वा तरण्डं निर्मितवान् । ततो द्वावपि ऊर्ध्वप्रवाहे महता परिश्रमेणाऽपरं तीरं प्राप्तौ ।
_ 'किमर्थं भवान् कुठारमेनमानीतवान् ?' - आश्चर्येण सिद्धार्थः पृष्टवान् । वासुदेवेनोक्तं - 'आवयोर्नीकायाश्चालनदण्डः कदाचिद् विनष्टः स्याद्, अतः' । सिद्धार्थो ज्ञातवान् यद् वासुदेवश्चिन्तयन्नाऽऽसीत् कदाचित् तेन बालकेन नौदण्ड आवां पृष्ठतोऽनुगन्तुं रोधनाय कुत्रचित् प्रक्षिप्तो भञ्जितो वा स्यादिति । वस्तुतोऽप्येवमेव जातम् । नौदण्डस्तु नाऽऽसीदेव । वासुदेवस्तं नौकां दर्शयित्वा स्मितवान्, यथा तं कथयतीव- 'किं भवतः पुत्रः कथयितुमिच्छतीति भवान् न पश्यति खलु ? आवां तं नाऽनुगच्छेवेत्यपि तस्येच्छाऽस्तीत्यपि भवान् न पश्यति किल?' । किन्तु स शब्दैस्तत् नैव कथितवान् नूतनं च नौकादण्डं निर्मातुं प्रारब्धवान् । ततः सिद्धार्थः पुत्रान्वेषणाय गन्तुं तदनुज्ञां पृष्टवान् । वासुदेवोऽपि तं नैव न्यषेधत् ।
सिद्धार्थश्चिराय वने तमन्विष्टवान् । ततस्तेन चिन्तितं यदिदं सर्वथा निरर्थकमस्ति । प्रायः स नगरमेव प्राप्तवान् स्यात्, अथवा, यदि स वने स्यात् तथाऽपि यत्र कुत्राऽपि निलीनः स्यात् स्वानुगामिनो मत्तः स्वं गोपयितुम्' । पुनश्च विमर्श कुर्वता तेनोपलब्धं यत् स्वपुत्रविषयिकी चिन्ता तु तस्य सर्वथा नाऽऽसीत् । तथा, वने तस्य बालकस्य काऽपि हानिः कुतश्चिद् वा भयं वाऽपि नैव जातं स्यादित्यत्राऽऽपि स सप्रत्यय आसीत् । एवं सत्यपि सोऽविश्रान्तं नगरं प्रति चलितवान्, न किन्तु तं रक्षितुमपि तु दैवात् स पुनरपि प्रत्यक्षीभवेदितीच्छयैव केवलम् । प्रान्ते च नगरसीमानं प्राप्तवान् ।
९७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org