________________
सर्वथाऽसमर्थ आसीत्, तदैव च तस्यैतत् प्रतिभातं यत् स्वस्याऽन्येषां च सामान्यजनानां मध्येऽयमेव महान् विशेषोऽस्ति इति ।
किन्तु, इदानीं, यदारभ्य तस्य पुत्र इहोषितवान् तदारभ्य, सोऽपि दुःखं स्नेहं चाऽनुभवन् सामान्यजनानामेवाऽन्यतमत्वमभजत् । पुत्रासक्त्याऽन्धीभूय स मूर्खत्वं समाचरन्नासीत् । स्वजीवने अतिचिरेणाऽपीदानीं सोऽत्युत्कटमपूर्वं च मनोभावमनुभवन्नासीत् । यद्यप्यनेन भावेन सोऽतिदारुणं सन्तापमनुभूतवान् तथाऽपि स इदमप्यनुभूतवान् यत् तस्य सत्त्वमनेन किञ्चिदिवोच्छ्रितं, किञ्चिदिव नवीभूतं समृद्धतरं च जातमस्तीति ।
स जानाति स्मैव यदिदं प्रेमैषा चाऽन्धाऽऽसक्तिः स्वपुत्रविषयिकी हि मूलतया मानवीय संवेदनमस्ति, एतदेव च संसारोऽस्ति खलु ! सर्वथा संक्षुब्धं गभीरजलस्रोतः । परन्तु समकालमेव सोऽनुभूतवान् यदिदं सर्वथाऽसारं तु नास्त्येव, अस्याऽप्यावश्यकता त्वस्त्येव, तथैतदपि निजप्रकृतेरेवोद्भूतमस्ति । एतत् संवेदनं, एषा पीडा, एतानि मौणि चाऽपि ह्यनुभवितव्यान्येव खलु !।
एतावता च, तस्य पुत्रस्तस्य मूर्खताः समलोकयत्, तं प्रयतमानं नैव न्यवारयत्, प्रकृत्यैव च विनीतं तं नैवाऽगणयत् । पितरि तादृशं न किञ्चित् तेन दृष्टं येन स आकृष्टो भवेत् यस्माद् वा स भयमनुभवेत् । तस्य पितैष एकः सुजनः, एकः सदयः सज्जनः, एको धार्मिको मनुष्यः, पवित्रश्च जन आसीत् - किन्तु, एते गुणास्ते नाऽऽसन् ये तं बालकं समाकृषेयुर्जयेयुर्वा । एष पिता तं यदीदृशे शीर्णे कुटीरेऽवासयत् तदपि तस्मिन् निर्वेदमजनयत्, तथा यत् स तस्याऽविनयं स्मितेनोदतरत्, प्रत्येकमपमानं सौजन्येन, प्रत्येकं दुर्वृत्ति च प्रेम्णा प्रत्यभावयत् - तद् हि तस्मै बालाय 'वृद्धशृगालस्य गीतमं कपट' प्रतिभाति स्म । यदि सिद्धार्थस्तं बालकं निरभत्सिष्यताऽपीडयिष्यच्च तदा तत् तस्मै अधिकमरोचिष्यत ।
अन्ते च, तद्दिनमपि समागतं यदा सिद्धार्थपुत्रस्तत् कथितवान् यत् सर्वं तन्मानसे आसीत्, इदानीं स प्रकटं पितुर्विरोधं कृतवान् । तच्चैवं जातं – पित्रा स आदिष्टः काष्ठखण्डानानेतुम् । किन्तु स कुटीराद् बहिर्नैव गतवान् । स तत्रैव स्थित्वोद्धततया सकोपं च भूमिं पादतलेन प्रहृतवान्, मुष्टिं च बद्ध्वा द्वेषं तिरस्कारं च प्रदर्शितवान् । 'भवान् स्वयमेव काष्ठखण्डान् आनयतु' - स आवेशेनोक्तवान् । 'नाऽहं भवतः प्रेष्यो दासो वा । अहं जानामि यद् भवान् मां नैव ताडयति, भवतः साहसमेव नास्ति तदर्थम् !, एवं सत्यपि भवान् सततं दयालुतया मां लालयन् मयि हीनभावं जनयति । भवान् हि मामपि भवादृशं कर्तुमिच्छति - धर्मनिष्ठं, सज्जनं, धीरं च । किन्तु, केवलं भवन्तं पीडयितुमेवाऽहं कदाचित् यदि परं चौरो घातको वा भविष्यामि न पुनर्भवादृशः । अहं भवन्तं धिक्करोमि । भवान् नास्ति मे पिता यद्यपि भवान् शतशो मम मातुः प्रियतमोऽपि स्यात् !' ।
एवं च दुःख-सन्ताप-कोपाकुलः स क्रोधावेशपूर्णान् शब्दान् स्वपितुः पुरत उद्गीर्य बहिः कुत्रचित् पलायितः, ततश्च रात्रावेव पुनरागच्छत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org