SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 'भवान् मे मनोगतं सर्वमपि जानात्येव' सिद्धार्थः सखेदमुक्तवान् । 'अहं बहुश एतदर्थे चिन्तितवान् अस्मि । किन्तु, य ईदृशः कठिनहृदयोऽस्ति स जगति कथं व्यवहरिष्यति ? किं स श्रेष्ठम्मन्यो न भविष्यति ? किं स भौतिकसुखे समृद्धावैश्वर्ये च भ्रष्टो नष्टश्च न भविष्यति ? किं स स्वपितृसमाचरितान् दोषान् न पुनरावर्तयिष्यते ? एवं च स किं संसारे निमग्नो न भविष्यति ?' 1 — वासुदेवः पुनरपि स्मितवान् । स मृदुतया सिद्धार्थस्य स्कन्धे हस्तं स्थापयित्वोक्तवान् – 'एतत् सर्वं नद्यै पृच्छतु मित्र ! तदुक्तं शृणोतु ततश्च हसतु ! किं सत्यमेव भवान् चिन्तयति यद् भवता समाचरितान् दोषान् भवत्पुत्रो नैव समाचरिष्यति ? किं ततो भवांस्तं संसाराद् रक्षितुं प्रभविष्यति ? कथम् ? किमनुशासनेन ? प्रार्थनाभि: ? उपदेशैर्वा ? प्रियमित्र ! भवतैवाऽत्र कदाचित् मे कथितां ब्राह्मणपुत्रस्य सिद्धार्थस्य बोधप्रदां कथां किं भवान् विस्मृतवान् किल ? श्रमणमपि सिद्धार्थं संसारात् पापाल्लोभान्मौर्थ्याच्च को वा रक्षितवान् ? किं तस्य पितुर्धर्मनिष्ठा ? किं तस्य गुरोरुपदेशा: ? तस्य स्वीयो बोध: ? किं वा तस्य सत्यान्वेषणं तं समरक्षत् ? कः पिता कतमो वा गुरुस्तं स्वच्छन्दतया जीवनं जीवन्तं जीवनं दोषैर्मलिनीकुर्वन्तं, स्वं पापभरेण पूरयन्तं विषस्य कटु पानं पिबन्तं, प्रान्ते च स्वयमेव स्वीयं पन्थानमन्वेषयन्तं च न्यवारयत् ? किं भवांश्चिन्तयति यत् कश्चनैतस्मात् क्रमाद्रक्षितः स्यात् ? यदि परं भवतो लघुपुत्रः, यतो भवांस्तं दुःखेभ्यः क्लेशेभ्यो मोहाच्च रक्षितुमिच्छतीत्यत: ? नैव सिद्धार्थ ! नैव, यदि भवान् स्वपुत्रस्य कृते दशवारमपि मृत्वा जन्म धारयिष्यति तथाऽपि तस्य नियतिमणुमात्रमपि परावर्तयितुं नैव शक्ष्यति !' । वासुदेवो ह्येतावन्मात्रं न कदाऽप्युक्तवानासीत् । सिद्धार्थस्तस्योपकारं मत्वा दुःखितहृदयेन कुटीरं प्रविशत्, किन्तु निद्रातुं शक्तो नाऽभवत् । स्वयमचिन्तितमज्ञातं च न किमपि वासुदेवेन कथितमासीत् । किन्तु ज्ञानादपि पुत्रप्रेम, पुत्रासक्तिः, पुत्रवियोगभयं च बलवत्तरमासीत् । न हि कदाचित् स कस्यचित्कृते स्वहृदयमेवं हारितवानासीत्, न हि कञ्चनाऽपि स एवंरीत्याऽन्धीभूय, दुःखीभूय, हताशीभूयाऽथाऽपि च सुखितम्मन्यः प्रीतवानासीत् । स स्वमित्रस्योपदेशं स्वीकर्तुं नैवाऽशक्नोत्, स्वपुत्रं च परिहर्तुं शक्तो नैवाऽऽसीत् । स स्वमाज्ञापयितुं स्वपुत्रमन्वज्ञापयदिव, स्वं प्रत्यविनीतं च भवितुमप्यन्वमन्यतेव । स तूष्णींभूय धैर्येण प्रतीक्षामकरोत् प्रत्यहं च मैत्र्या धैर्यस्य च मूकं युद्धं प्रारभत । वासुदेवोऽपि मौनतया प्रतीक्षामकरोत्, सस्नेहं सद्भावेन क्षमाशीलतया च । द्वे अपि मित्रे धैर्यस्य तु स्वामिनावास्ताम् । एकदा, यदा बालकस्य मुखं तं कमलामस्मारयत् तदा, सहसैव सिद्धार्थो बहुकालपूर्वं कमला तं यत्कथितवत्यासीत् तदस्मरत् । 'भवान् न कस्मिश्चिदपि स्त्रियेत् कदाऽपि' इति सा तं कथितवती, सोऽपि च तत् स्वीकृतवानाऽऽसीत् । स स्वं तारया सहाऽन्यांश्च जनान् वृक्षात् पतद्भिः पर्णैः सह तुलितवान् आसीत्, । एवं सत्यपि स तस्याः शब्देषु स्थितमुपालम्भमनुभूतवानासीत् । एतत् तु सत्यमेवाऽऽसीत् यत् सः, स्वस्याऽपि विस्मरणं येन भवेत् तादृशं प्रेम, कस्याऽपि विषयेऽनुभूतवान् नाऽऽसीत् । एतत् कर्तुं स ९५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy