SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मित्रत्वेन कथयन्नस्मि । अहं पश्यामि यद् भवान् चिन्ताकुलो दुःखितश्चाऽस्ति । भवतः पुत्रो भवन्तं मां चाऽपि खेदयन्नस्ति । बालः पक्षी ह्ययं भिन्नजीवनेन भिन्ननीडेन चाऽभ्यस्तोऽस्ति । भवानिव सोऽत्र वैभवान्नगराच्च वैराग्येण निर्वेदेन वा नैव समागतोऽस्ति, तेनैतज्जीवनं बलाज्जीवितव्यमापतितमस्ति । मया नद्यै अप्येतदर्थं पृष्टमस्ति, बहुवारम् । किन्तु सा मामुपहसितवती भवन्तं चाऽपि । साऽऽवयोर्मूर्खत्वं दृष्ट्वोच्चैर्हासं कृतवती । भोः ! जलं जले एव गमिष्यति, यौवनं च यौवने । भवतः पुत्रोऽत्र कदाऽपि सुखी नैव भविष्यति । भवानपि नौ पृच्छतु शृणोतु च तत्कथनम्' । __ खिन्नः सिद्धार्थस्तस्य करुणार्द्र मुखं दृष्टवान्, तत्र च प्रभूताः प्रशस्ता वलय आसन् । स मृदुतयोक्तवान् – 'कथमहं तस्मात् पृथग् भवेयम् ? इतोऽपि मे समयं ददातु प्रियवयस्य !, अहं तदर्थमेव परिस्थित्या युध्यमानोऽस्मि, तस्य हृदयस्याऽन्तः प्रवेष्टुं प्रयत्नं कुर्वन्नस्मि । अहं तं प्रेम्णा धैर्येण च जेष्यामि । नद्यप्येषा तेन सहैकदा संवादं करिष्यति यतः सोऽपि नद्यैवाऽऽहूतोऽस्ति । वासुदेवस्य स्मितमितोऽपि स्निग्धं जातम् । 'आम्, सोऽपि नद्याऽऽहूतोऽस्ति, सोऽपि च शाश्वतजीवने समभागी वर्तते । किन्तु भवान् जानाति यत् किमर्थं स आहूतोऽस्ति ?, केन वा मार्गेण ?, कस्मै वा कार्याय ?, कैर्वा दुःखैः सह ? तस्य दुःखानि स्वल्पानि न भविष्यन्ति । तस्य हृदयं हि दर्पयुतं कठोरं चाऽस्ति । स प्रायो बहु सहिष्यते, बहून् दोषान् समाचरिष्यति, बबन्याय्यं सेविष्यते, बहूनि च पापानि करिष्यति । कथयतु मां मित्र !, किं भवान् स्वपुत्रं समनुशासयन्नस्ति ? किं स भवदाज्ञाकारी वर्तते ? किं भवांस्तं ताडयति दण्डं करोति वा ?' | 'नैव वासुदेव ! अहमेतेषामेकतमदपि नैव करोमि' । 'आम्, अहं जानामि । भवान् तेन सह कठोरो न भवति, तं नैव दण्डयति नाऽपि चाऽऽज्ञापयति - यतो भवान् चिन्तयति यन्मृदुता हि कठोरत्वतः प्रबला, प्रेम हि बलात्कारादपि बलवत्, जलं हि पाषाणात् सबलमिति । शोभनमस्त्येतत् । अहं प्रशंसामि भवन्तम् । किन्तु चिन्तयतु भवान् यत् कठोरत्वानाचरणं दण्डकारणं च किं भवत्पक्षे दोषो नास्ति वा ? भवतः प्रेम तत्कृते बन्धनं तु न भवति खलु ? स्वसौजन्येन धैर्येण च भवान् तं लज्जितं कुर्वन् प्रत्यहं तस्य कृते जीवनमधिकं दुष्करं तु नैव कुर्वन्नस्ति खलु ? किं भवान् एनमुद्धतं दुर्ललितं च बालकं, द्वाभ्यां वृद्धाभ्यां कदलीखादकाभ्यां सहाऽस्मिन् कुटीरे, प्रसभं वसितुं न नियोजयन्नस्ति खलु, ययोः कृते ओदनमपि विशिष्टभोजनं भवति, ययोविचारास्तत्समा नैव भवितुमर्हन्ति, ययोर्हदये वृद्धे शान्ते ततश्च भिन्नतया स्पन्दमाने स्तः ? किं स एतादृशेनाऽऽचरणेनाऽधिकं निरुद्धो दण्डितश्च न भवेत् खलु ?' । व्यग्रः सिद्धार्थो भुवं विलोकयन् मन्दस्वरेण पृष्टवान् – 'तर्हि मया किं वा कर्तव्यम् ?' वासुदेवेनोक्तं – 'तं नगरे नीत्वा तन्मातृगृहं प्रापयतु । तत्र सेवकाः स्युरेव । तानस्य सेवायां नियोजयतु । यदि च ते न स्युस्तदा तं शालायां प्रवेशयत, न च शिक्षणार्थं किन्तु तत्राऽन्ये बाला बालिकाश्च स्युर्यैः सहाऽयं सम्पर्कं कुर्यात् स्वीयं विश्वं च परिचिनुयात् । किं भवताऽत्राऽर्थे कदाऽपि चिन्तितं वा?' ९४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy