SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ | भक्तामरस्तोत्रान्तिमचरणपादपूर्तिरूपः परमगुरुश्रीशासनसम्राजीवनवृत्तवर्णनात्मकः श्रीनेमिस्तवः ॥ आ. श्रीविजयधर्मधुरन्धरसूरिः (वसन्ततिलका-वृत्तम्) अर्हन्मतानुगमनं गुणवत्प्रकाम, स्याद्वादसारनयभङ्गभराभिरामम् । नेमे ! गुरो ! तव वचोऽस्त्यधुनातनानां । . वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥ सत्तलक्षणसुलक्षणप्रीतप्रीतैः, सूरीश्वरैः स्तुतिपथं गमितं सुगीतैः । त्वां भक्तिनिर्भरहृदा प्रणिपत्य सेन्द्र, __ स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वां रूपपणचणं विदितात्मरूपं सेष्टे जडः कवयितुं कथमिष्टरूपम् । मन्दं विना दिनकरं गमने वरीतु ___ मन्यः फ इच्छति जनः सहसा ग्रहीतुम् ॥३॥ स्तोत्रं विधातुमिह कोऽविकलोऽपि हीशः, सद्धर्मधुर्य ! तव दिव्यगिरा मुनीश ! । को गन्तुमत्र गहनान्तमरं पदाभ्यां, ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ शक्तिं विचारपदवीमविधाय भक्त्या, बाढं तव स्तवनमाचरितुं विरक्त्या । उत्साहितोऽस्मि समवेक्ष्य न वै महार्थं, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ रूपं विशुद्धतरमत्र गुरो ! त्वदीयं, संकर्षते नवनवे हृदयं मदीयम् । यद् रौति पञ्चमरवं भुवि काककेतु स्तच्चारुचूतकलिकानिकरैकहेतु ॥६॥ ज्ञानावृति त्वदभिधानहतं हताशं, करिमस्तृसमयं वृणुते विनाशम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy