________________
लोके दुरन्तमखिलं निहतप्रचारं,
सूर्यांशुभिन्नमिव शाश्मन्धकारम् ॥७॥ इत्थं विचार्य विहितं गुणगौरवं ते,
स्तोत्रं सतां हृदयमाविशतीष्टमन्ते । भावरतवैव हि सरोजदले सदिन्दु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ स्तोत्रेण किं त्वदभिधानत एव नव्यं,
नानाविधं भवति शं भुवि भव्यभव्यम् । भानुं विनाऽपि किरणैर्मधुरं विराञ्जि,
पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥ हे योगिनाथ ! भवता भवतः समानाः,
. सम्पादिता जगति सूरिवराः प्रधानाः । युक्तं प्रदीप इह दीपकमातनोति,
भूत्याश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ श्रुत्वा मुनीन्द्र ! तव मेघगभीरवाणी,
___ मिथ्यात्वदर्दुरगिरं शृणुयाल प्राणी । त्यक्त्वा सुधामधरगां लवणं च गच्छेत्,
क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ दूरं गता विकृतिपोषकरा विहाय,
त्वां शीलरुपमणवोऽरिवरं प्रभाय । ब्रह्मात्मनस्तव शरीरमरुपमस्ति,
यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ आरयं त्वदीयमनिशं न जहाति लास्यं,
__ स्वाभाविकं स्फुरति तत्र सदैव हास्यम् । पापात्मनां तव पुरो वदनं सजल्पं,
यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ सत्तर्क-लक्षण-जिनागम-काव्य-दैव
विद्यास्त्वयाऽवगमिता मुनयः सदैव । शिष्याः समस्तविषयेषु चरन्त्यथेष्टं,
कस्तानिवारयति सञ्चरतो यथेष्टम् ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org