SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आजन्मतोऽपि विषयेन धृतं प्रशान्तं, स्वान्तं त्वया स्ववशतो विहितं नितान्तम् । शब्दादिनाऽप्यचलिता दृढता नु काचित्, किं मन्दरादिशिखरं चलितं कदाचित् ॥१५॥ सबुद्धिवर्तिरभितो हृदयान्तराल गाढान्तरालहरणप्रवणोऽकरालः । स्नेहेन शास्त्ररुचिना रुचिरं चकासद् दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः ॥१६॥ सूर्यः खरैः करभरैर्भुवनं निहन्ति, न त्वां तथा बुधजना उपमां नयन्ति । प्रीतिं दधासि सततं ननु भव्यलोके, सूर्यातिशायिमहिमाऽसि मुनीन्द्र! लोके ॥१७॥ ज्योत्स्ना समग्रभुवनेऽस्ति यशःस्वपा, त्वत्संस्थितिर्न च कदापि बुधादिरूपा । त्वदर्शनं मधुरयेत् कटुकं नु निम्बं, विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ सम्यक्त्वबीजवपनात् परमात्मभूते, , क्षेत्रे वचोमृतप्रवर्षणतः प्रसूते । धान्यं शिवं सलिलदोऽयमसारकनैः, कार्यं कियज्जलधरैर्जलभरननैः ॥१९॥ नैसर्गिकं सुजनजाड्यहरं चिरत्ने, तेजश्चकास्ति भगवंस्तव चित्तरले । नाऽन्यत्र दृष्टमथवाऽस्ति विभाकरेऽपि, नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ संसारवारिनिधिजातदुरन्तदोष, हृत्वा सदाऽऽचरितमत्र सदात्मपोषम् । जैनं वचस्तव तथा लसदन्तरेऽपि, कश्चिन्मनो हरति नाऽथ भवान्तरेऽपि ॥२१॥ श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्, विश्वे तवैव प्रतिभा कृतवत्यकन्थान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy