SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ कादम्बके गिरिवरे जिनराज्यचैत्ये, त्वत्स्थापिते भवजतापविनाशिशैत्ये । शृङ्गं विराजति सुवर्णमयाच्छकौम्भ मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ रत्नत्रयं शुभवतो भवतश्चकास्ति ___ लोकत्रये किमपि यत्सदृशं न चाऽस्ति । जाग्रत्प्रभावमुपनीतमुनीश्वरत्वं, ___ प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ स्तोतुं भवन्तमुचितं कवयन्ति केचित्, काव्ये कलां बहुविधां प्रथयन्ति केचित् । चित्रं विधाय मधुरं कथयन्ति केचित् पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ तेजस्तवैव भगवन् ! विशदान्तरस्य, यादृग् विभाति न तथा मनुजान्तरस्य । सूर्यस्य या लसति कान्तिरुदासिनोऽपि, तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ सद्धर्मकर्मणि महाभयमाविधूते, ___ श्रीमान् व्रतोच्चरणतीर्थविधानभूते । निर्भीकतां नु भवतां समताश्रितानां, दृष्ट्वा भयं भवति नो भवंदाश्रितानाम् ॥३४॥ वैराग्यभावमधिगत्य गृहीतदीक्षं, माता पिता प्रियतमा तनयः सुशिक्षम् । स्नेहाविलः समुपयाति समाश्रयं ते, नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ रूपादिपञ्चविषयात्मककाष्ठजातं, ज्ञानादिभरमकणं परिनष्टसातम् । कामानलं विकृतिधूमविरूपवेषं, ___ त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ दुष्पञ्चमारक भवो मदनातिरेकः, प्रध्वंसितानुभव-भावनसद्विवेकः । १० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy