SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २. प्राकृतजनमध्ये सिद्धार्थः श्रेष्ठिनं कामस्वामिनं मिलितुं तस्य गृहं प्राप्तः । सुसमृद्धे हh सेवकैः महार्घास्तरणानतिक्रामन् स मुख्यापवरकं प्रापितो यत्र गृहस्वामिनं प्रतीक्षमाणः स उपविष्टः । स्तोकवेलानन्तरं कामस्वामी तत्राऽऽगतः । स कोमलप्रकृतिकोऽपि आनन्दी जन आसीत् । तस्य केशेषु पलिता जायमाना आसन्, नेत्रे च चतुरे सावधाने चाऽऽस्तां, मुखं च विलासितां द्योतयति स्म। तौ द्वावपि मैत्रीभावेन परस्परमभिवादनं कृतवन्तौ । श्रेष्ठी कथितवान् – 'मया ज्ञातं यद् भवान् ब्राह्मणोऽस्ति, विद्वान् अस्ति, वृत्तिं च मार्गयमाणोऽस्ति - इति । तत् किं भवान् व्यसनपतितो, येन वृत्ति मृगयते ?' ___'नैव', सिद्धार्थः कथितवान् – 'अहं व्यसनग्रस्तो नाऽस्मि । वस्तुतस्तु मम जीवने कदाऽपि व्यसनं नाऽऽगतम् । अहं हि वनादागतो यत्र श्रमणैः सह चिरायोषितवानहम्' । - 'यदि भवान् श्रमणानां सकाशादागतस्तत् कथं व्यसनग्रस्तो वृत्तेरपेक्षावान् वा नाऽस्ति किल ? श्रमणास्तु सर्वथा परिग्रहरहिताः सन्तीति श्रुतं खलु मया !' । 'अहमपि परिग्रहरहित एवाऽस्मि' – सिद्धार्थ उक्तवान्, 'यदि भवन्मनसीदमभिप्रेतं स्यात् । अहं सर्वथा परिग्रहं नैव धारयामि, किन्तु तद् मदिच्छयैव । अत एवाऽहं व्यसनग्रस्तो नाऽस्मि' । 'किन्तु कथं भवान् परिग्रहहीनो जीविष्यति ?' 'मयैतद्विषये न कदाऽपि चिन्तितं महोदय ! । अहं वर्षत्रयात् परिग्रहरहित एवाऽस्मि, तथाऽपि मया नैव चिन्तितं कदाऽपि यत् कथमहं जीविष्यामीति' । 'तथा च भवान् अन्येषामाधारेण जीवितः खलु !' । 'सत्यम् । श्रेष्ठ्यपि ह्यन्येषामाधारेण जीवति ननु !' । 'युक्तमुक्तम् । किन्तु स एवमेवाऽन्येषां सकाशान्न किञ्चिद् गृह्णाति, स वस्तूनि तद्विनियमेन ददाति' । 'वस्तूना हीयमेव गतिरस्ति । प्रत्येकं जनो गृह्णाति, प्रत्येकं च ददाति । जीवनक्रमो ह्येष खलु !' 'सत्यं तत् । किन्तु यदि भवान् सर्वथा परिग्रहहीनस्तदा कथमन्येभ्यः किञ्चिद्दातुमर्हति ?' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy