________________
'प्रत्येकं जनः स्वपार्वे यत् स्यात् तद्ददाति । सैनिको बलं दत्ते, वाणिजो वस्तूनि ददाति, शिक्षको विद्यां ददाति, कृषको धान्यं, धीवरश्च मत्स्यान् दत्ते' ।
'बाढम् । अथो भवान् किं ददाति ? भवता तत् किं शिक्षितमर्जितं वा यदन्येभ्यो दातुं शक्यम् ?' 'अहं विचारयितुं, प्रतीक्षितुमुपवसितुं च समर्थः' । 'किमेतत् पर्याप्तं वा ?' 'पर्याप्तमेवेति प्रतिभाति मम' । 'परन्तु कुत्रोपयोगीनि तानि ? उदाहरणार्थं - को वा लाभो जनस्योपवासेन क्रियते खलु ?'
'उपवासस्याऽप्यस्ति महन्मूल्यं महोदय ! । यदा हि कस्यचित् पार्श्वेऽशनादि किञ्चिदपि न स्यात् तदोपवास एवैकं चातुर्यपूर्ण कार्य, यत् स कर्तुं शक्नोति । यथा, यदि सिद्धार्थ उपवासं कर्तुं न जानाति तदाऽद्य तेन क्षुधापीडिततया तच्छमनार्थं यत्किञ्चिदपि कार्यं भवत्पाद्येऽन्यत्र वाऽन्विष्य कर्तव्यं स्यात्, यतः क्षुधैव तं तदर्थं प्रेरितवती स्यात् । किन्तु तथा न जातं, यतः सिद्धार्थोऽव्याकुलतया प्रतीक्षितुं जानाति । सोऽधीरो नास्ति । तस्य काऽप्यपेक्षा नास्ति । स क्षुधं चिराय निरोद्धमपहसितुं च समर्थः । अतो महोदय ! उपवासः सर्वथोपयोग्येव' ।
'साधूक्तं भवता भोः श्रमण ! । किञ्चित् प्रतीक्षतामेषोऽहमागच्छामि' ।
कामस्वामी बहिर्गत्वा किञ्चन पत्रं गृहीत्वा प्रत्यागतः, तच्च सोऽतिथिकरेऽर्पयित्वा पृष्टवान् – 'किं भवानेतत् पठितुं शक्तो वा ?'
सिद्धार्थस्तत् पत्रं दृष्टवान् । तत्रैको विक्रयलेखो लिखित आसीत् । तं पठित्वा सिद्धार्थः श्रेष्ठिने श्रावितवान् ।
'बाढं' – कामस्वाम्युक्तवान् । 'अथ चाऽस्मिन् पत्रके मदर्थं किञ्चिल्लिखित्वा दास्यति भवान् ?' ___ कामस्वामी तस्मै एकं पत्रकं लेखनी चाऽदात् । सिद्धार्थोऽपि तत्र किञ्चिद् लिखित्वा तस्मै प्रत्यार्पयत् तत् ।
कामस्वामी तत् पठितवान् – 'लेखनं शोभनं, किन्तु चिन्तनं श्रेष्ठम् । चातुर्यं प्रशस्यं, धैर्यं तु ततोऽपि श्रेष्ठम्' ।
'सुन्दरं लिखति खलु भवान्' - श्रेष्ठी तं प्रशंसितवान् । 'आवाभ्यामितोऽपि बहु चर्चयितव्यं, किन्त्वद्याऽहं भवते मम प्राघूर्णकीभवितुं मद्गृहे च निवसितुमामन्त्रयामि' । ___... सिद्धार्थस्तदर्थमाभारं मत्वा तदामन्त्रणं स्वीकृतवान् । स श्रेष्ठिगृहे एव निवासं कृतवान् । नूतनवस्त्राण्युपानहौ च तदर्थमानायितानि । एकः सेवकः प्रत्यहं तस्य कृते स्नानादिसामग्री प्रगुणीकरोति स्म । प्रतिदिनं वारद्वयं तस्य पुरतो भोजनमपि परिवेष्यते स्म । किन्तु सिद्धार्थः सकृदेव भुनक्ति स्म । स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org