SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ द्घटमानानि सन्ति । एतत् कथं भवतीति ऊहितुं न शक्नोमि । किं भवत्पार्श्वे किञ्चन मन्त्रादिकमस्ति वा ?' T सिद्धार्थेनोक्तं 'ह्य एव मया कथितमासीद् यदहं विचारयितुं प्रतीक्षितुं निराहार: स्थातुं च शक्नोमि । किन्तु भवत्या तत्सर्वमनुपयोगि मत्वाऽवगणितम् । किन्तु कमले ! भवत्येव द्रक्ष्यति यत् तत्सर्वमपि सर्वथोपयोगि । भवती ज्ञास्यति यद् - एते मूर्खाः श्रमणा अरण्ये वसन्तोऽपि बहून्युपयोगीनि वस्तूनि शिक्षन्ते जानन्ति च । परह्योऽहं सर्वथाऽनभिज्ञोऽप्रसाधितश्च भिक्षुक आसीत् । ह्यस्तु मया कमला चुम्बिता । इतः परं चाऽहं श्रेष्ठीभविष्यामि धनमुपार्जयिष्यामि, यानि च वस्तूनि भवत्यै मूल्यवन्ति प्रतिभान्ति तेषामहं स्वाम्यं प्राप्स्यामि' | — ‘सत्यमिदम्’ - कमला स्वीकृतवती । 'किन्तु मया विना भवान् किं वाऽकरिष्यत् ? यदि कमला भवन्तं सहायं नाऽकरिष्यत् तदा भवान् कुत्र वाऽस्थास्यत् ?' - 'प्रिये कमले !' - सिद्धार्थ उक्तवान् – 'यदाऽहं भवत्याः समीपे उपवने समागतस्तदा मया प्रथमं पदं न्यस्तम्। श्रेष्ठायाः सुन्दर्याः सकाशात् कामकला शिक्षितव्येति मे ध्येयमासीत् । यदा हि मया ध्येयमिदं निश्चितं तदैवाऽहं जानामि स्म यदेतदहं सम्पादयिष्याम्येवेति । मयैतदपि ज्ञातं यदत्र भवती मे सहायं करिष्यत्येव, तद्धि मया भवत्याः प्रथमदृष्टिपातेनैव ज्ञातमासीत् तत्रोपवनद्वारे' । 'अथ यदि नाऽहं भवत्साहाय्यं कर्तुमिच्छामकरिष्यत् तदा ?' 'किन्तु भवत्या सेच्छा कर्तव्यैवाऽऽसीत् । शृणु कमले ! यदा वयं जले पाषाणखण्डं क्षिपामस्तदा स खण्ड: त्वरितमेव जलस्य तलं प्राप्नोति । सिद्धार्थोऽपि यदैकं ध्येयं लक्ष्यं वा निश्चिनोति तदाऽपि एवमेव भवति । यद्यपि सिद्धार्थो न किञ्चित् करोति, स हि केवलं प्रतीक्षते, चिन्तयति, उपवसति च तथाऽपि जलतलं प्राप्तस्य प्रस्तरखण्डस्येव, स किञ्चिदपि न कुर्वाणश्चेष्टमानो वा जगतोऽपि व्यापाराणां पारं प्राप्नोति, ननु तत्राऽऽकृष्यते सः, स्वं चाऽऽकृष्यमाणं नैव रुणद्धि । स हि स्वीयध्येयेनैवाऽऽकृष्यते, यतः स स्वीयमनसि ध्येयविरुद्धं न किञ्चिदपि प्रवेष्टुमनुमन्यते । इदमेव सिद्धार्थः श्रमणानामन्तिके शिक्षितवान् खलु ! | मूर्खजना एतदेव चमत्कारमिन्द्रजालं वा कथयन्ति एतच्च पिशाचसाध्यमिति मन्यन्ते । किन्तु पिशाचा न किञ्चिदपि कर्तुं शक्ताः । ननु पिशाचा एव न सन्ति । प्रत्येकं जनश्चमत्कारं कर्तुं शक्तः, प्रत्येकं जनः स्वं ध्येयं प्राप्तुं समर्थो यदि स चिन्तयितुं प्रतीक्षितुमुपवसितुं च शक्नुयात्' । कमला तमैकाग्र्येण श्रुतवती । तस्यै तत्स्वरो रोचते स्म, तस्य नेत्रान्निर्गच्छन् प्रकाशो रोचते स्म । 'ननु मित्र ! यथा भवान् वदति तथाऽपि स्यात्' सा मृदुतयाऽवदत्, ‘अथवा ननु सिद्धार्थः सुरूपोऽस्ति, तस्य दृष्टिपातः स्त्रियः प्रीणयति, स सौभाग्यवान् अस्ति - इत्येतदर्थमपि तत् स्यात्' । ' एवं भवतु मे शिक्षिके ! मम दृष्टिपातो भवतीं सदैव प्रीणयतु, सौभाग्यं च सदाऽपि भवत्या मध्यमेन मामनुसरतु' - इति वदन् स तां चुम्बितवान्, तस्याश्च सकाशान्निर्गतवान् । Jain Education International — - ६० - For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy