SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ यस्याः कार्यक्रमेषु प्रयुज्यते देववाणी तया सोऽयं सकौतुकं सर्वत्र प्रसार्यते - हन्त न च के नाऽपि वार्यते । किं भणसि ? “का तत्र हानिः? को वा व्यत्यासः ?" अरे, तादृशः सन्देशः किं सर्वजनसमक्षं प्रकाश्यः ? अपरश्च प्रभूतं दाहकः सोऽयं भास सर्वे ज्ञास्यन्ति त्वमसि पत्नीदासः । धातुरागैः शिलायां संचित्र्य पादयोः पतसि अबलासुलभान्यश्रूणि वमसि सर्वमिदं प्रकाश्य किमित्यात्मानमुपहससि ? किमिति सह न नीतं मदीयं किञ्चन छायाचित्रम् ? एकान्तनिमिषेषु तद् भवति सर्वोत्तमं मित्रम् । सम्प्रत्याक्रन्दन् किमनुहरसि स्त्रीणां चरित्रम् ? अपरं च किमिदं त्वयोच्चारितम् ? विरहकूशात् प्रकोष्ठात्तत् कनकवलयं हारितम् ? अरेऽस्मिन् महार्घताकाले विधिना किमिदं कारितम् ? मम तु हृदयमेव विदारितम् विवाहे मत्पित्रा तन्मह्यमुपहारितम् त्वया तु नृत्यगीतव्यावृतेन न किमपि कीटजातं मारितम् प्रस्थानसमये मदीयस्मरणाय तत् त्वयाऽऽसीद्धारितम् तव वैकल्यं वीक्ष्य न मयाऽपि वारितम् . अरे, किं त्वयाऽष्टौ मासानपि सुरक्षितुं तल पारितम् ? सम्प्रति रामगिरौ सावधानमन्वेषय तत् । मा भूत् कस्यचन विह्वलत्वमेतावत् यद् गलकण्ठात् कुसुमस्रगिव न ज्ञायेत कनकवलयं पतत् ? नूनं क्वचन तत्रैव पतितं स्यात् कस्तन्नेष्यति तस्मानिर्जनात् स्थानात् । इदं चाडपरं किं वाञ्छसि कथयितुम् ? अश्रुविकलाऽहं न पारये वीणां वादयितुम् ? किमति वा न पारयिष्यामि ? सम्प्रति साऽवकाशाउरिम; किमन्यत् करिष्यामि ? . २९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy