________________
विनोदपृषताः [विडम्बन-काव्यम्]
आधुनिक्या यक्षपत्न्या मेघसन्देशस्योत्तरम् देवर्षिकलानाथशास्त्री
श्रीमन् रसिकशिरोमणे! आकर्णितोऽमुष्मिन् क्षणे त्वदीयः सन्देशो मामुद्दिश्य । सर्वं तत् साधु, किन्तु पश्य; किमिदमद्भुतं त्वया चिन्तितम् ? यन्मामनुस्मरता सन्ततम् वारिवाहक: सन्देशं हर्तुं प्रार्थितः । किं नाऽन्यः सन्देशहरस्त्वयाऽऽसादितः ? पत्रं, तडित्पत्रं, दूरभाष, टेलक्षम् (तैलाक्षम्) बहूनि साधनानि जनानां समक्षम् किं वक्षि, “रामगिरौ नाऽन्यत् किमपि साधनम् ? स्थलं तन्निर्जनम्, तत्राऽपि गिरिं परितः काननम् ?' भवतु, त्वया तु नेक्षितात्र विप्रतिपत्तिः परं सञ्जायते त्वादृशी चेष्टा बहुधा विपत्तिः । ननु पश्य, यो हि मन्यते गैर्वाण्या मूर्तिमान् विलासः वावदूकश्चपलो योऽसौ कविः कालिदासः तेन निबद्धस्तव सन्देशो मन्दाक्रान्तासु स च तावन्तं महिमानमापन्नोऽयं जनतासु यदद्य सर्वत्र पठ्यते, श्राव्यते, गीयतेऽनूद्यते, मञ्चेषु अवतार्यते । किं बहुना? याऽस्ति सा आकाशवाणी
* मेघदूतस्य सन्देशं यदि काचिदाधुनिका पत्नी शृणोति, सा कीदृशमुत्तरं प्रतिपद्यतेति कल्पयता रचनाकारेण विनोदकाव्यमेतद् विरचितम् ।
२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org