________________
नामाक्षराणि* डॉ. वासुदेव वि. पाठकः 'वागर्थः'
दामोदर दामोदर हे देव दयामय मोहान्ध्यं मे विभो निवारय । दयया ते हे शुद्धिस्स्यान्मे रमतु रागरहितं च मनो मे ॥
शीलचंद्र शीलेन लब्धसौभाग्यं लक्ष्यपूर्तिकरं वरम् । चंद्रवच्छैत्यमापन्नं द्रवन्तं सद्गुरुं भजे ॥
महावीर महावीरो महामान्यः हानिलाभादिवर्जितः । वीतरागो वरैर्वन्द्यः रविरश्मिसमप्रभः ॥
वृंदावन वृंदावनविहारार्थम् दानदाता रसाद्रितः । वरा वेणुः करे यस्य नम्यते नन्दनन्दनः ॥
कामनाथ:
विनायकः विनायकः परो देवः नायकश्च गणाधिपः । . यश्च माङ्गल्यकर्ताऽस्ति कः साक्षान्मूर्तिमांस्तथा ॥
कामनाथः शिवस्साक्षान् मन्दाकिनीधरश्शुभः । नागेशः पार्वतीशश्च थःस्थाने च कृतालयः ॥
नटवर . नटवरो हरिस्साक्षात् टङ्कादिविमुखस्सुधीः । वदान्यो वरमान्यश्च रसज्ञो रासलोलुपः ॥
टङ्कः = गर्वः, कः = ब्रह्म = आनन्दः थःस्थाने = पर्वते
* पद्येष्वेतेषु प्रत्येका पङ्क्तिः एकैकशः नामाक्षरेणाऽऽरभ्यते । पद्येषु, नाम्नः वैशिष्ट्यमपि प्रतीयते, इति विशेषः ॥
२७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org