________________
अवसरं वीक्ष्य वीणावादने समधिकायाऽभ्यासाय गन्धर्व एको मयाऽस्ति नियुक्तः शिक्षणाय प्रत्यहमायति स होराद्वयाय । भूयस्यो नवाः स्वरगतयः शिक्षिता मया नवाः कतिपदे ताला नवाश्च लयाः । किन्तु दिवसेष्वेषु पश्यामि तस्य गन्धर्वस्याऽन्यादृशमेव लयम् । अन्यादृशमेव तस्याऽऽकूतम् ॥ शङ्के यन्नाऽस्ति तस्य मनः पूतम् । स एवाऽवोचत् त्वदर्थे, “मया नेदमुचितमनुभूतम् यत् तव स यक्षो नाऽन्यं प्राप्य कञ्चन दूतम् प्रहितवांस्त्वत्कृते जीमूतम् ? मन्मते तु तादृशो जनः कापुरुषः । अहं तु चिन्तयामि भूरिशः कुबेरेण यथैव शापो मुखालिःसारितः स तूष्णीं निर्गतोऽलकाया गृहद्वारतः ? नैकः शब्दोऽपि प्रतिरोधे उच्चारितः ? त्वयाऽपि तादृशेन सह व्यर्थमियान् कालो हारितः । तत्स्थाने यद्यहमभविष्यम् कुबेरस्य विरोधे क्रान्तिमकरिष्यम् । अलकावासिनः सर्वान् संघटय्य, संघर्षसमितिं संकलय्य कुबेरस्य जीवनं नारकीयमारचयिष्यम्, यद् वा, सर्वोच्चन्यायालयेऽगमिष्यम् । मन्यसे चेद् वचनं मदीयम्, त्वया तदिदमेवाऽधुना करणीयम् यदेकं वर्षं तु ते पृथग् वासो जातः, एकोऽपरो वत्सरो यदि पार्थक्ये निर्यातः वर्षद्वयस्य पृथक्त्वे विवाहविच्छेदः संभवति न्यायव्यवस्थातः ।"
+ वर्षद्वयस्य पृथग् वासः (Judicial Seperation) विवाहविच्छेदस्य कृते मान्यो भवतीति न्यायव्यवस्थाऽत्र
सङ्केतयितुमिष्यते ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org