SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ एवंविधाः कथा आलपति दास्याः पुत्रः किन्तु मा भूश्चिन्तितः, त्वमेव स्थास्यसि मे पतिरेकच्छत्रः । यदि श्वोऽपि गन्धर्वोऽयं तथैव प्रलपिष्यति । प्रदाय पारिश्रमिकं विसर्जयिष्यामि, यथाऽऽगतं गमिष्यति । त्वं तु पं प्रत्यायाहि द्रुतम् शापान्तस्ते देवोत्थान्याम् इति सर्वैः श्रुतम् । मा कोऽपि गन्धर्वोऽधुना मामेकाकिनी वीक्ष्य प्रणयाऽऽवेदनस्याऽवसरं निरीक्ष्य समायातु धनपतिगृहानुत्तरेणाऽस्मद्भवने । किं च, करणीयमस्ति बहुतरमस्मिन् सदने । याऽऽसीत्ते पैत्रिकी मरकतसोपानमयी वापी तद् वर्णनमाकर्ण्य कश्चित्, पापी राज्यशुल्कनिरीक्षकात् पिशुनयामास क्रीडाशैलं, कनककमलान्यखिलं सूचयामास । समागतमेकदा करनिरीक्षकाणां दलम् । मयोक्तं, साम्प्रतं भवतामाक्रमणेन अलम् अचिरमेव गृहपतिः समागन्ता स एव गृहान्वेषणाय अनुमन्ता । अतस्त्वम् आयाहि त्वरितम्, येन समाधीयेत सर्वमिदं दुरितम् तव सन्देशेनैव सर्वमिदमाचरितम् यद् गोपनीयमिदं सर्वसमक्षमुर्वरितम् । किमधिकम्, त्वया व्याकुलं मानसं रोधनीयम् अल्पं लिखितमधिकं बोधनीयम् ॥ अध्यक्षः, आधुनिकसंस्कृतपीठस्य, जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये; प्रधानसम्पादकः "भारती'संस्कृतमासिकस्य; भूतपूर्वोऽध्यक्षः, राजस्थानसंस्कृतअकादम्याः, निर्देशकचरश्च संस्कृतशिक्षा-भाषाविभागयोः (राजस्थानशासने) सी-८, पृथ्वीराज रोड, सी. स्कीम, जयपुर-३०२००१ (राजस्थान) ३१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy