________________
Jain Education International
क्रमशोऽत्र प्रवर्तते ॥
प्रो. कमलेशकुमार छ. चोकसी
वारेषु प्रथमो वरः सोमवारः प्रकीर्तितः । द्वितीयो मङ्गलः प्रोक्तस्तृतीयो बुध उच्यते ॥१॥ गुरुवारोऽस्ति तुरीयः पञ्चमः शुक्रवासरः । षष्ठः शनी रविरत्र सप्तमोऽन्तिम उच्यते ॥२॥ पर्यायत्वेन शब्दानां प्राप्तिरस्त्यपरिमिता । रुचीनामथ वैचित्र्याद् विविधं नाम वर्तते ॥३॥ सोमश्चन्द्रस्तथा रविः प्रोक्त आदित्यवासरः । मङ्गलो भूमिपुत्रत्वाद् भौमवासरः कथ्यते ॥४॥ देवतानां समेषां हि गुरुर्बृहस्पतिः स्मृतः । तस्माद्धि गुरुवारोऽयं बृहस्पतिर्निगद्यते ॥५॥ वीरत्वाच्च यथैवाऽयं वीरवासर कथ्यते । तथा शनैश्चरतीति शनिः शनैश्वरः स्मृतः ॥६॥ एवं सोमादिवाराणां नामानि विविधानि वै । लोके प्रचलन्तीति नामभेद: प्रवर्तते ॥ ७ ॥ आसीद् ह्यो रवेर्वा द्याऽस्ति सोमवासरः । अवश्यं श्वो भविताऽसि अयि मङ्गलवासरः ! ॥cu रविते दिने यस्य तस्य सोमोऽद्य वर्तते । यस्य गते दिने सोमः कथमद्य प्रवर्तते ? ॥९॥ यस्य गते दिने भाति दुःखमद्य न दृश्यते । गते भाति दिने यस्य सुखमद्य न दृश्यते ॥ १० ॥ चारादनन्तरं चारो रविर्वा सोम एव वा । तथा सुखं च दुःखं च क्रमशोऽत्र प्रवर्तते ॥ ११॥ एतत् मनोगतं ज्ञानं सत्यं शिवं च सुन्दरम् । सर्वदा तत्प्रवर्तेत दुःखं कस्य प्रजायते ? ॥१२॥
३२
संस्कृतविभागः, भाषासाहित्यभवनम्,
गुजरात विश्वविद्यालयम्, अहमदाबाद- ३८०००९
For Personal & Private Use Only
www.jainelibrary.org