SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तन्मलीमसमिवाऽभवत् । अन्तः स्थिते भ्रान्तिजुगुप्से यदा-कदाचिदपि प्रकटीभवतः स्म । किन्तु सिद्धार्थ एतत्सर्वं नैव निरैक्षतं । तस्य निरीक्षणे केवलमेतदेव समागतं यदेकदा येन विशदेन परिस्फुटेन चाऽऽन्तरध्वनिना स जागरित आसीत्, तस्योत्कृष्टे समये यो मार्गदर्शक आसीत् स ध्वनिरद्य सर्वथा क्षीणो विरतश्च जातोऽस्तीति । संसारस्तस्य चित्तवृत्ताविदानीमाधिपत्यं करोति स्मेव । भोग-विलासाः, लोलुपता, कार्यवैमुख्यमित्यादयस्तु तज्जीवनं दूषयति स्मैव, किन्तु यं दोषं स स्वयमेव सर्वदाऽतीव धिक्करोति स्म स एव दोषः परिग्रहोऽपि तच्चित्तमभिव्याप्य स्थित आसीत् । सम्पत्तिः, अधिकार ऐश्वर्य - मित्यादि सर्वमपि शनैः शनैस्तं स्ववशे स्थापयति स्म । इदानीं तत् सर्वमपि तस्य कृते क्रीडामात्रं क्रीडनकं वा नाऽऽसीत् प्रत्युत बन्धनं भारभूतं चाऽभवत् । चित्रं त्वेतद् यदुत्पथगामित्वमाश्रित्य स सर्वतोऽप्यधमां व्यसनेषु निष्ठारूपां द्यूतक्रीडां कर्तुमारब्धवान् । - यदारभ्य सिद्धार्थो हृदयेन श्रामण्यं त्यक्तवान् तत्प्रभृति, यस्यां क्रीडायां पुरा स जनानुरोधेन तदुपहासपूर्वकं प्रावर्तत तस्यामेव द्यूतक्रीडायां स धनालङ्कारादिप्राप्त्यर्थमतीवोत्कटतया क्रीडितुमारब्धः । सोऽतीव दुर्धर्षोऽक्षक्रीडक आसीत् । तेन सह क्रीडितुं न कश्चन प्रभवति स्म, यतस्तस्य पणा उदग्रा साहसयुताश्चाऽऽसन् । स स्वमनस्तापं शमयितुमिव क्रीडति स्म । धनस्याऽतिव्ययेन द्यूते च निरर्गलं देवनेन तस्योत्कटं सौख्यं भवति स्म, यतो धनिकानामाराध्यदैवतरूपं धनं धनिकांश्च व्यक्ततयोपहासपूर्वकं चाऽवहेलियतुं तस्य पार्श्वे नाऽन्यः कश्चन उपाय आसीत् । अतः स उदग्रतया पणान् कुर्वन् स्वमन्यांश्चोपहसन् क्रीडंश्च सहस्रशो धनं जयति स्म हारयति स्म चाऽपि धनमलङ्कारान् गृहाणि - सर्वमपि पणीकुर्वन् वारं वारं जयति स्मारयति स्म वा । एतस्य मुख्यं कारणं त्वेकमेवाऽऽसीत् - एवंरीत्याऽनिश्चितक्रीडनेन यत् प्रबलं क्रूरं च चित्तौत्सुक्यं जायते स्म तत् तस्य सुखप्रदं भाति स्म । एतच्चित्तौत्सुक्यपूर्णं संवेदनं तस्मै अतितरां रोचते स्म, तच्च संवेदनं नवनवतयाऽनुभवितुं, वर्धयितुं, समुद्दीपयितुं स सातत्येन प्रयतते स्म । यतः स्वीयेऽतितृप्ते, मर्यादिते, नीरसे च जीवितेऽनेन संवेदनेनैव केवलं स यत्किञ्चित् सुखं, यत्किञ्चिदुत्तेजनं, यत्किञ्चिच्च तीव्रतरं जीवनानन्दमनुभवितुं शक्त आसीत् । यदा यदा च सोऽतिप्रमाणं धनं हारयति स्म तदा तदा स नूतनं धनमर्जयितुं, सोत्कण्ठं वाणिज्ये प्रवर्तितुं, स्वीयानधमर्णांश्च धनप्रत्यर्पणार्थं कठोरतया प्रेरयितुमारभते स्म यतो यया कयाऽपि रीत्या धनमुपार्ण्य स पुनरपि द्यूतं क्रीडितुमिच्छति स्म, पुनरपि महापणान् कर्तुमिच्छति स्म, पुनरपि चाऽधिकतया धनस्य तिरस्कारं प्रदर्शयितुमिच्छति स्म । क्रमशः सिद्धार्थो द्यूते धनहानेरधीरो जायते स्म, अधमर्णैर्ऋणेऽप्रत्यर्पिते विलम्बेन वा प्रत्यर्पितेमर्षणो भवति स्म, भिक्षुकान् प्रति सोऽधुना दयावान् नाऽऽसीत्, दीनानसहायांश्च दानं दातुं सहायं च कर्तुं सोऽधुना नेच्छति स्म । एकैकस्मिन् पणे यो लक्षमितं धनमपि पणीकरोति स्म स वाणिज्ये लघुन्यपि व्यवसाये कठोरः स्वार्थी च भवति स्म कदाचिच्च स्वप्नेऽपि धनमेव पश्यति स्म । Jain Education International ७० For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy