________________
यदा हि कदाचित् सोऽस्मात् शापरूपात् संमोहनात् जागरितो भवति स्म, दर्पणे च प्रतिबिम्बितं स्वीयं जर्जरं विरूपं च जायमानं मुखं पश्यति स्म, यदाऽपि च लज्जा जुगुप्सा च तन्मनो व्याप्नोति स्म तदा स पुनरपि द्यूतगृहं प्रति धावति स्म, लक्षान् पणीकरोति स्म, विलासितायां मत्तः सन् सुरापानं करोति स्म । ततश्च पुनरपि धनार्जनार्थं तत्सङ्ग्रहणार्थं चोत्कटतया प्रवर्तते स्म । अस्मिन् अर्थहीने विषचक्रे भ्रामं भ्रामं जर्जरीभूतः सोऽकालेऽपि जीर्णो रुग्णश्च जात आसीत् ।
अथैकदा स्वप्नैकेन स प्रबोधितः । तद्दिने सायं स कमलया सह तस्याः क्रीडोद्याने तरोरध उपविश्य वार्तालापं कुर्वन्नासीत् । कमला गभीरतया वदति स्म तदा । तस्याः शब्देषु व्यथा खेदश्चाऽनुभूयेते स्म । तया सिद्धार्थस्य गौतमबुद्धविषयका प्रश्नाः पृष्टाः, यथा - तस्य लोचने कियती निर्मले आस्ताम् ? तस्य मुखं कथं शान्तिपूर्णं सुन्दरं चाऽऽसीत् ? स्मितं च कथं प्रसादपूर्णमासीत् ? तस्य च समग्रोऽपि व्यवहारः कथमुपशान्त आसीत् ? - इत्यादि । सिद्धार्थप्रदत्तानुत्तरान् श्रावं श्रावमपि सा तृप्तिं नैव प्राप्ता । सिद्धार्थेन चिराय महात्मनो बुद्धस्य वर्णनं कर्तव्यमभवत् । ततो दीर्घं निःश्वस्य कमलयोक्तं 'ममेदं प्रतिभाति यदेकदा, शीघ्रमेव, अहं बुद्धभगवतोऽनुयायिनी भिक्षुणी भविष्यामि । इदं क्रीडोद्यानमपि तस्यैव समर्प्य तत्सङ्घस्य शरणं च गृहीत्वा तदुपदेशानुसारं जीविष्यामि' |
ततः सा सिद्धार्थं तीक्ष्णकटाक्षेन प्रलोभयित्वाऽत्यन्तासक्ततयोत्कटतयोग्रतया च तं समालिङ्ग्य रन्तुमारब्धा । साऽद्याऽस्य क्षणिकसुखस्याऽन्तिमं मधुबिन्दुं समास्वादितुमिच्छति स्मेव । इतः पूर्वं, कामासक्तेर्मृत्योश्चैतावान् गाढः सम्बन्धोऽस्तीति सिद्धार्थेनैवंस्पष्टतया न कदाऽप्यनुभूतमासीत् । ततः स तस्याः पार्श्वे शयितवान्, तस्याश्च मुखं तन्मुखासन्नमेवाऽऽसीत् । तस्या नेत्रयोरधः, ओष्ठप्रान्तयोश्च तेनैदम्प्राथम्येन व्यक्ततया वल्यश्चर्मसङ्कोचाश्च परिलक्षिताः, यैर्हि जरा- वार्धक्ययोः स्पष्टः सङ्केतो दीयते स्म । सिद्धार्थः स्वयमपि, योऽद्याऽपि चत्वारिंशद्वर्षदेशीय आसीत्, स्वकेशेषु पलितान् लक्षितवानासीत्, तेन कमलायाः सुन्दरे मुखेऽप्यद्याऽवसादो दृष्टः । यस्मिन् पथि सुखदमवसानं नाऽऽसीत्, तत्र च प्रवासेनाऽऽयातं केवलं श्रान्तत्वं, जरसो विषादस्य चैव सङ्केताः, प्रच्छन्नमनिर्दिष्टं प्रायश्चाऽव्यक्तं भयं - जीवनसन्ध्याया भयं, वार्धक्यस्य भयं, मृत्योश्च भयमवसादश्च सिद्धार्थेन कमलाया वदने दृष्टः । दीर्घं निःश्वस्य सिद्धार्थस्तामापृच्छ्य ततो निर्गतः । तस्य हृदयं विषादेन निगूढभयेन च पूरितमासीत् ।
स्वगृहं गत्वा सिद्धार्थेन सा रात्रिः सुरापानेन सह नर्तकीनां सान्निध्ये यापिता । स्ववयस्येभ्यः स्वयं श्रेष्ठो नाऽऽसीत् तथाऽपि तेन श्रेष्ठताया अभिनयः कृतः । प्रचुरं मद्यं पीत्वा मध्यरात्रेऽतीव श्रान्तोऽपि सन् चित्तेऽविरतं प्रवर्तमानेन द्वन्द्वेनाऽत्यन्तमुद्विग्नः, ततश्चाऽश्रुपूर्णलोचनो विषण्णहृदयश्च स शयितुं गत: । हृदयं तस्य दुःखेन तथा सन्तप्तमासीत् यथा तेनाऽनुभूतं यत् स इतोऽपि तत् सोढुं शक्तो न स्यात् । अस्वादुमद्यपानं, अगभीरस्याऽपि अतिमधुरस्य सङ्गीतस्य श्रवणं, नर्तकीनां सौगन्ध्यातिरेकयुतकेशादीनामाघ्राणं च यथा हठान्मनो व्याप्नोति तथा ततोऽपि वाऽधिकया जुगुप्सया तन्मनो व्याप्तमासीत् । एतेषां सर्वेषामुपरिष्टाच्च स स्वात्मनैवाऽधिकं जुगुप्सित आसीत्, तस्य सुगन्धाः केशाः सुरापानेन दुर्गन्धपूर्णं मुखं, शैथिल्यं प्राप्ता
Jain Education International
-
७१
For Personal & Private Use Only
www.jainelibrary.org