SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ च त्वक् - एतत् सर्वमपि तस्य जुगुप्सां वर्धयति स्म । यथा कश्चन भोजन-पानातिरेकाद् व्याकुलः सन् वमनेनैव शान्ति सौख्यं चाऽनुभवति तथा सोऽपि सर्वाण्यपीमानि भौतिकसुखानि, व्यसनानि, सर्वथा निश्चेतनं चेदं जीवनमेकेनैव प्रचण्डेनोत्सारणेन वान्त्वा सुखी स्वस्थश्च भवितुमिच्छति स्म सर्वात्मना । एवमेव व्याकुलतयाऽनिद्रित एव रात्रि यापयित्वा प्रत्यूषे किञ्चन सुप्तवान् । तस्यां क्षणिकतन्द्रायां स स्वप्नमेकं दृष्टवान् । ___ कमला स्वगृहे सुवर्णमये पञ्जरे मधुरगानमेकं पक्षिणं पालितवत्यासीत् । सिद्धार्थः स्वीये स्वप्ने तमेव पक्षिणं दृष्टवान् । तेन दृष्टं यत् प्रत्यहं प्रातःकाले गायन्नयं पक्षी अद्य सहसा अवाक् जातोऽस्ति । एतेन विस्मितः स सुवर्णमयं पञ्जरमुद्घाट्य यावत् पश्यति स्म तावत् स पक्षी मृतो दृष्टः । स तं पक्षिदेहं स्वहस्तेन गृहीत्वा क्षणं च निरीक्ष्य दूरं प्रक्षिप्तवान्, तत्क्षणमेव च यथा तेन किञ्चन श्रेष्ठं बहुमूल्यं च वस्तु अपि पक्षिणा सह प्रक्षिप्तमिव मन्वानः स भयकम्पितो जातः स्वीयहृदये चाऽकथ्यं दुःखमनुभूतवान् । एनं स्वप्नं दृष्ट्वा सहसा जागरितः स महति विषादे निमग्न आसीत् । स्वीयं सर्वमपि जीवनं तेनाऽसारतया निरर्थकं च व्ययितं, जीवनात् स न किञ्चिदपि फलं सारं मूल्यं वा निर्वृहितवान् - इति सोऽनुभवन्नासीत् । तस्य प्रतिभातं यत् पोतभङ्गेन सर्वमपि विनाश्य सर्वथैकाकी तटे पतितो जन इव सोऽप्येकाकी जातोऽस्ति । ___एवं विषण्णः सिद्धार्थः स्वीयं क्रीडोद्यानं प्राप्तः, द्वारं पिधाय च सहकारवृक्षस्याऽधस्तादुपविष्टः । तस्य हृदयं मृत्युभयेन ग्रस्तमासीत् । कञ्चित् कालमेवमेव यापयित्वा स विचारयितुमारब्धः । यदारभ्य तस्य स्मर्यते स्म तत् सर्वं स विचारयात्रया निरीक्षितवान् । “कदा किल स याथार्थ्येन सुख्यासीत् ? कदा किल वस्तुतस्तेनाऽऽनन्दोऽनुभूत आसीत् ? आम्, स्मृतम् ! नैकवारं स सुखमानन्दं चाऽनुभूतवानासीत् । यदा स तारुण्ये वर्तमानो विविधान् विषयानधीत्य ब्राह्मणानां प्रशंसां प्राप्तवान्, स्वीयान् समयवयस्कान् दूरमतिक्रान्तवान्, सामगाने सर्वेभ्योऽपि प्रकर्षं प्राप्तवान्, पण्डितैः सह वादं कृतवान्, यागादिषु च स्वपित्रादीनां साहाय्यं कृतवान् तदा तस्य मनः सुखेनाऽऽनन्देन च व्याप्तमासीत्" । "तदात्वे तेन स्वहृदयगह्वरेऽनुभूतमासीद् यत् - त्वत्कृते एष एव पन्था अनुसरणीयतया विद्यते । अस्मिन्नेव पथि देवास्त्वां प्रतीक्षन्ते - इति" | "ततो यौवनेऽपि यदाऽनवरतमूर्ध्वगमनाय प्रेरयताऽनेनैव हृदयाशयेन स सब्रह्मचारिणां यूथाद् बहिनिर्गतः, यदा ब्राह्मणानामुपदेशान् बोद्धं स दृढतया प्रयतितवान्, यदा च प्रत्येकं नूतनो बोधो नूतनतमबोधप्राप्तेरेवाऽभीप्सां तस्मिन् जनयति स्म तदा पुनरपि, प्रयत्नानामेषां मध्येऽभीप्सानां चाऽऽसां मध्येऽपि तस्याऽन्तःकरणं वदति स्म – 'अग्रेसरो भव, अग्रेसरो भव, अयमेव तेऽध्वा' - इति । यदाऽपि स गृहं त्यक्त्वा श्रमणीभवितुं निर्गतस्तदाऽप्ययमेव ध्वनिस्तस्य हृदयाकाशे गुञ्जति स्म । ततः पुनरपि यदा स श्रामण्यमुत्सृज्य पूर्णपुरुषस्य बुद्धस्य पार्श्वे गतस्तदाऽपि स एव ध्वनिस्तं जागरयति स्म । प्रान्ते च तमपि विहाय यदा सोऽज्ञातं प्रदेशं प्रति प्रस्थितवान् तदाऽप्ययमेव ध्वनिस्तस्य चित्ते प्रतिध्वन्यते स्म" । ७२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy