________________
एव चिन्तयन् भवति, स ध्येयनिष्ठो भवति, स ध्येयेनैवाऽऽविष्टो भवति । अन्वेषणं नाम - ध्येयसहितेन भवितव्यं, किन्तु प्राप्तिर्नाम मुक्तिः, सर्वग्रहणशीलता, ध्येयविहीनता वा । भोः सत्पुरुष ! यद्यपि भवान् सत्यान्वेषकोऽस्ति, स्वध्येयार्थं नितरां प्रयत्नशीलोऽप्यस्ति, किन्तु तत एव भवतो दृष्टेः समक्षमेव यानि वस्तूनि सन्ति तान्यपि भवान् द्रष्टुं न क्षमः ।
'अहमितोऽपि भवतः कथनस्य भावार्थं नैवाऽवगच्छामि ननु ! किं वाऽभिप्रैति भवान् ?' - गोविन्दोऽपृच्छत् ।
'भो मान्य ! एकदा भवान्, बहु वर्षेभ्यः पूर्वं, नद्या अस्यास्तटे आगतः, जनमेकं चाऽत्र शयानं दृष्टवान् । भवान् तद्रक्षणार्थं तत्समीप एवोपविष्टः किन्तु तमभिज्ञातुं नैव प्रभुर्जातो भो गोविन्द !' ।
आश्चर्यचकितो मन्त्रमुग्धश्च जातः स भिक्षुर्नाविकं निरीक्षितवान् । 'भवान् सिद्धार्थोऽस्ति खलु ?' - स कातरतया पृष्टवान् । 'अहं भवन्तमिदानीमपि नैव प्रत्यभिज्ञातवान् । भवतः पुनदर्शनं जातमित्यतोऽत्यन्तं प्रसन्नोऽस्मि भोः ! सिद्धार्थ ! अतीव हृष्टोऽस्मि । भवान् बहु परावर्तनं प्राप्तोऽस्ति मित्र ! किमिदानीं भवान् नाविकः संवृत्तोऽस्ति वा ?'
सिद्धार्थः सस्नेहं हसितवान्, 'आम् अहं नौचालको जातोऽस्मि । बहुभिर्जनैर्बहुशः परावर्तनं प्राप्तव्यं भवति, नैकविधानि च वस्त्राणि परिधातव्यानि भवन्ति । अहमपि तेषामन्यतम एव प्रियसखे ! । भवतोऽत्र स्वागतमस्ति गोविन्द !, अहं भवन्तं मे कुटीरे रात्रियापनार्थमामन्त्रयामि' ।
गोविन्दस्तस्यां रात्रौ कुटीर एव न्युषितः, वासुदेवस्य चैव शय्यायां शयितवान् । स बाल्यकालीनाय स्वमिंत्राय बहून् प्रश्नानपृच्छत्, सिद्धार्थश्च स्वजीवनविषयकान् बहूनंशान् तस्याऽकथयत् ।
प्रातर्यदा गोविन्दस्य गमनकालः सन्निहितस्तदा किञ्चित् स्खलद्वाक् सन् स सिद्धार्थमुक्तवान् - 'मित्र ! मम गमनात् पूर्वमहमितोऽप्येकं प्रश्न प्रष्टुमिच्छामि तावत् । भवान् कं सिद्धान्तं कां वा श्रद्धां किं वा ज्ञानमवलम्बते यद् भवते सम्यग् जीवितुमुचितं च कर्तुं सहायं करोति ?'
सिद्धार्थेनोक्तं – 'भवान् जानात्येव मित्र ! यत् तारुण्येऽपि यदाऽऽवां श्रमणीभूय वनेऽवसतां तदाऽपि अहं सिद्धान्तेषु गुरुषु वा नैव श्रद्दधामि स्म, प्रत्युत तान् पृष्ठतः करोमि स्म । अहमिदानीमपि तादृशीमेव विचारधारां दधामि, एवंसत्यपि ततः कालादेवाऽद्ययावत् मे बहवो गुरवः सञ्जाताः । एका सुन्दररूपवती गणिका चिराय मे गुरुरासीत्, एवं कश्चन धनिको वणिक् द्यूतक्रीडकश्चाऽपि मे गुरू अभवतम् । एकस्मिन्नवसरे तु पर्यटनं कुर्वाणो महात्मनो बुद्धस्य कश्चन शिष्योऽपि मे गुरुः सञ्जातः । अरण्यमध्ये गाढनिद्रावशगस्य मम रक्षणार्थं स स्वीयां यात्रामपि रुद्धवा मत्पाā उपविष्ट आसीत् । अहं तत्सकाशादपि किञ्चिच्छिक्षितवान्, एतदर्थं चाऽहं तस्य कृतज्ञोऽस्मि, भृशं कृतज्ञः । एवं स्थितेऽपि अधिकं ज्ञानं तु मया अस्या नद्याः सकाशात् मे पूर्वगामिनश्च वासुदेवस्य सकाशादेव प्राप्तमस्ति । स हि सर्वथा सामान्यो जन आसीत्, विचारकस्तु नाऽऽसीदेव, तथाऽपि गौतमबुद्धवत् स जीवनस्य सारभूतं तत्त्वं
१०५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org