________________
८. गोविन्दः
एकदा गोविन्दः, प्रसिद्धया गणिकया कमलया बौद्धभिक्षुभ्यो विहारार्थं समर्पिते क्रीडोद्याने कैश्चिदन्यैर्भिक्षुभिः सह कञ्चित् कालं विश्रान्त्यर्थमुषितवान् । तत्र च स वृद्धनाविकविषयिकी वार्ता श्रुतवान्, यः केवलमेकदिवसीयप्रवासान्तरे नदीतटे वसति स्म, जनेषु च सत्पुरुषतया प्रथित आसीत् । यदा गोविन्दस्ततः प्रस्थितस्तदा स नदीं गच्छता मार्गेणैव प्रस्थितः । यतो यद्यपि स स्वीयं समग्रं जीवनं भिक्षुसङ्घस्य नियमाननुसृत्यैव यापितवान् आसीत्, स्वस्य वयो नियममर्यादां विनीतत्वं चाऽऽश्रित्य युवभिक्षूणामादरपात्रमप्यासीत्, तथाऽपि तस्य हृदयमितोऽपि चाञ्चल्यं बिभर्ति स्म, सत्यान्वेषणेच्छा चाऽतृप्ताऽऽसीत् ।
नदीं प्राप्य स वृद्धनाविकाय नदीपारं प्रापयितुं प्रार्थयत । यदा तौ नदीपारं प्राप्य नौकातोऽवतीर्णौ तदा स वृद्धं तं कथितवान् – 'भवान् साधून् यात्रिणश्च प्रति भृशं सद्भावं दर्शयति खलु ! भवान् आस्माकीनान् बहून् साधून् नदी तारितवानसि । मन्ये, अहमिव भवानपि सन्मार्गगवेषक एवाऽस्ति किल?'
सिद्धार्थस्य वृद्धयोनयनयोः स्मितज्योत्स्ना दृश्यते स्म । सोऽवदत् - 'किं भवान् स्वं मार्गगवेषकत्वेन गणयति खलु ? मान्यो भवान्, यो वर्षाणि यावद् भिक्षुत्वं प्रपन्नः सोऽपि एवं वदति खलु ?'
गोविन्देनोक्तं- 'यद्यप्यहं वृद्ध एव, तथाऽपि मयाऽन्वेषणं नैव त्यक्तं, कदाऽप्यहं तन्नैव त्यक्ष्याम्यपि। एषैव मम नियतिरस्ति । किन्तु मन्ये यद् भवान् किञ्चिदुपलब्धवान् अस्ति इति । मित्र ! किं भवान् तद्विषये किञ्चिद् कथयति वा माम् ?'
सिद्धार्थनोक्तं - 'भवते मूल्यवद् भवेदित्येवं किं वाऽहं वदानि ? केवलं, भवान् प्रायः सत्यान्वेषणार्थं भृशं प्रयतते, तत्परिणामतश्च भवान् तन्न लब्धुं शक्तः स्यात् - इति' ।
'एतत् कथं वा स्यात् ?'
'यदा कश्चनाऽन्वेषणे रतो भवति तदाऽनायासमेव स यदन्वेषणे लग्नस्तदेव स पश्यति ततश्च सोऽन्यत् किञ्चिदपि प्राप्तुं नैव शक्नुयात्, किञ्चिदप्यङ्गीकर्तुं नैव सिद्धो भवेत्, यतः स केवलं तस्मिन् विषय
१०४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org