SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नैवाऽभाषत, परन्तु तस्य प्रशान्तवदनाद् वात्सल्यस्य प्रसन्नतायाश्च प्रभा प्रसरति स्म, सद्भावस्य प्रज्ञायाश्च छाया विलसति स्म । स सिद्धार्थहस्तं स्वहस्तेन गृहीत्वा तं नदीतीरेऽनयत् । ततस्तस्य पुरत उपविश्य नदीं प्रति दृष्ट्वाऽस्मयत् । स्नेहेनाऽकथयच्च - 'भवता नद्याः हास: श्रुतः, किन्तु ततोऽप्यधिकं बहु श्रोतव्यमस्ति । आवां शृणुयाव तावत्' । सर्वमपि शुभमशुभं च - एतेषां सर्वेषामपि सम्मीलनं नामैव जगदासीदिदं खलु । एतेषां सर्वेषामपि मीलनमेवाऽऽसीद् घटनाप्रवाहो नाम, जीवनसङ्गीतं नाम ! I यदा सिद्धार्थ ऐकाग्र्येण नदीम श्रौषीत्, सहस्रशः शब्दानां गानमश्रौषीत्, यदा च स शोकमयं हास्यमयं वा शब्दं नैव श्रुतवान्, यदा स स्वं केनचित् विशेषेण ध्वनिना नैवाऽबध्नात्, नाऽपि च तं ध्वनिमात्मसात् कृतवान्, किन्तु सर्वानपि श्रुतवान्, यदा च स सर्वमपि सामग्र्येणाऽद्वैतेन च श्रुतवान्, तदा सहस्रशो ध्वनीनां महागानं केवलमेकशब्दात्मकमेव जातम् - ओम् - पूर्णता इति । 'किं भवान् श्रुतवान् ?' पुनरपि वासुदेवो दृष्टिक्षेपेण पृष्टवान् । तस्य स्मितमुज्ज्वलमासीत्, यथा ओम् - नद्याः सर्वेष्वपि ध्वनिषु सर्वतः प्रसृतस्तथा तस्य स्मितस्य कान्तिरपि तस्य मुखस्य सर्वास्वपि वलिषु सर्वतः प्रसृता । यथा स स्वमित्रमुखमवलोकितवांस्तथा तस्य स्मितं प्रोज्ज्वलं जातम् । ततश्च सिद्धार्थस्य मुखेऽपि तदेव स्मितं प्रकटितम् । तस्य व्रणमुपशान्तं जायमानमासीत्, तस्य पीडाऽपस्त्रियमाणाऽऽसीत्, तस्याऽऽत्मा चैक्ये विलीयमान आसीत् । ततः क्षणादेव सिद्धार्थो नियतिं विरुध्य युद्धकरणात् निवृत्तो जातः । तस्य वदनोपरि; इच्छानां सङ्घर्षाद् यो निवृत्तोऽस्ति, यो मुक्ति प्राप्तोऽस्ति, यो घटनाप्रवाहेण सह जीवनप्रवाहेण च सह संवादितां भजति, यस्य चित्तं सहानुभूत्या करुणया च पूर्णमस्ति यः प्रवाहे एव समर्पितोऽस्ति सर्वेषामपि चैक्येन संस्थितोऽस्ति, तस्य वदने या ज्ञानानन्दस्य प्रभा विलसेत् सा, प्रभा विलसमानाऽऽसीत् । वासुदेवो नद्यास्तटादुत्थितः । यदा स सिद्धार्थस्य नेत्रयोर्निरीक्षितवान् तत्र च ज्ञानानन्दं प्रकाशमानं विलोकितवान्, स स्वीयेन सहृदय - सौम्यव्यवहारेण मृदुतया तस्य भुजं स्पृष्ट्वाऽकथयत् – 'मित्र ! अस्यैव क्षणस्य चिरप्रतीक्षा मया कृताऽऽसीत्, अधुना स क्षण उपस्थितोऽस्ति । इदानीमहं गमिष्यामि । अहं वासुदेवो नांविकतया चिरायाऽभवम् । अधुनैतत् समाप्तं जातमस्ति । स्वस्ति कुटीराय, स्वस्ति नद्यै, स्वस्ति च सिद्धार्थाय । सिद्धार्थोऽपि गच्छतस्तस्याऽग्रे सविनयं प्राणमत् कथितवांश्च मृदुतया भवान् वनं गच्छति किल ?' 'आम् अहं वनं गच्छामि, अहं समग्रस्याऽपि वस्तुजातस्यैक्यं प्रति गच्छन्नस्मि' – प्रोज्ज्वलवदनो वासुदेवोऽवदत् । एवं च स गतवान् । सिद्धार्थस्तं गच्छन्तं समवलोकितवान्, स गच्छन्तं तं महताऽऽनन्देन गौरवेण चाऽवलोकितवान् । तस्य प्रशान्तान् पादन्यासान्, देदीप्यमानं वदनं, प्रकाशमयं च सर्वमपि व्यक्तित्वं सोऽवलोकयन्नतिष्ठत् । Jain Education International O १०३ For Personal & Private Use Only - 'मया ज्ञातमासीदेतत्, किं www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy