SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जानाति स्म । वस्तुतः स एकः पवित्रो मनुष्य एकः सत्पुरुष आसीत्' । गोविन्द उक्तवान् – 'सिद्धार्थ ! मन्ये यद् भवते अद्याऽपि विनोदकरणं किञ्चिदिव रोचते । अहं भवन्तं श्रद्दधे, जानामि च यद् भवता कस्यचनाऽपि गुरोरनुसरणं नैव कृतम् । किन्तु, एतावताऽपि भवतः स्वयंसिद्धमेव किञ्चन ज्ञानं, केचन सिद्धान्ता विचारा वा न सन्ति यत्साहाय्येन भवान् सुखेन जीवति ? यदि भवानत्र विषये कञ्चित् कथयेत् तदा मे महान् सन्तोषो भविता' । सिद्धार्थः कथितवान् – 'आम्, ममाऽपि केचन विचाराः किञ्चिच्च ज्ञानमासीदेव । कदाचिच्च मुहूर्तमात्रं दिनार्धं वाऽहं ज्ञानविषयिकीं जागृतिं वहामि, यथा कश्चन स्वचित्ते कदाचिद् जीवनविषयिकीं जागृतिं धारयति । तथा ममाऽपि बहवो विचारा आसन्नेव किन्तु तेषां भवदग्रे निरूपणं मत्कृते कष्टदं स्यात्। अथाऽप्येको विचारो मां सदाऽपि आकृषति गोविन्द !, यत् - प्रज्ञाया: सङ्क्रमणं सर्वथाऽशक्यमस्ति । यदि कश्चन प्राज्ञो जनो प्रज्ञां कस्मैचिद् वितरीतुं प्रयतते तदा तदज्ञानमेव मे प्रतिभाति' । 'किं भवान् परिहासं करोति वा ?' ‘नैव भोः ! । मया यदाविष्कृतमस्ति तदेव भवते कथयन्नस्मि । ज्ञानं हि परस्मै दातुं परस्मिन् वा सङ्क्रमयितुं शक्यं, न तु प्रज्ञा । कश्चन तां समासादयेत्, तया स्थिरो भवेत्, तामुपयुज्य च चमत्कारानपि कुर्यात् किन्तु तस्या वितरणं सङ्क्रमणं शिक्षणं वा कर्तुं तु सर्वथाऽशक्यम् । अहं तारुण्य एवैतस्मिन्नर्थे साशङ्क आसम् । अनेनैव च कारणेनाऽहं गुरूणां सान्निध्ये स्थिरो नैव जातः । अन्योऽप्येको विचारोऽस्ति गोविन्द ! यं भवान् परिहासं मूर्खत्वं वा मन्येत । स चैवमस्ति - प्रत्येकं सत्यस्य विपर्ययोऽपि समानतयैव सत्यमेवाऽस्ति । उदाहरणार्थं, यदि किञ्चित् सत्यमेकपक्षीयं स्यात् तदैव तत् शब्दैरभिव्यज्येताऽऽव्रियेत वा । प्रत्येकं विचाररूपं शब्दैश्चाऽभिव्यज्यमानं वस्तु एकदेशीयं सत्यमर्धसत्यम् । तस्मिन् साकल्यं पूर्णत्वमैक्यं वा नैवाऽस्ति । यथा, यदा महात्मा बुद्धो जगद्विषयकं तथ्यमुपदिष्टवांस्तदा तेन तत् संसारो निर्वाणं चेति द्विधा विभक्तव्यमापतितं; एवं सत्यं भ्रान्तिश्च बन्धनं मुक्तिश्च इत्यादि । अन्यथा च नैतच्छक्यमस्ति । उपदेष्टृणां कृतेऽन्या काऽपि पद्धतिरेव नाऽस्ति । एवं सत्यपि जगदिदं - अस्मदन्तः अस्मत्परितश्च वर्तमानं हि न कदाऽप्येकदेशीयमेकाङ्गीयं वा भवति । कञ्चनाऽपि मनुष्यः किञ्चित् कृत्यं वाऽपि च सर्वथा संसाररूपं निर्वाणरूपं च वा नैव भवति । कोऽपि जन: सर्वथा पापी सर्वथा च सज्जनो वा नैव भवति । किन्तु अस्माकं यदेवं प्रतिभाति तत्र "कालः सद् द्रव्यमस्ती' 'ति भ्रम एव कारणम् । कालस्तु सद्द्द्रव्यं नास्त्येव गोविन्द ! | अहं बहुश एतदनुभूतवानस्मि । एवं च यदि काल एव सत् नाऽस्ति तदा जगत: शाश्वततत्त्वस्य च मध्ये, दुःखस्य आनन्दस्य च मध्ये, पुण्यस्य पापस्य च मध्ये या भेदरेखा दृश्यते सा केवलं भ्रम एवाऽस्ति' । Jain Education International 1 'एतत् कथं स्यात् ?' गोविन्दः ससम्भ्रमं पृष्टवान् । 'पश्यतु मित्र ! अहं पापी अस्मि भवान् पापी अस्ति । किन्तु कदाचित् पापी ब्रह्मस्वरूपो भविष्यति, 1 १०६ - For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy