SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ निर्वाणं प्राप्स्यति, बुद्धो भविष्यत्येव । अथाऽत्र यदिदं 'कदाचित्' इत्यस्ति तद् भ्रम एव, तद्धि केवलमुपमानमेवाऽस्ति । पापी हि बुद्धत्वप्राप्तेर्मार्गे नैव वर्तते, उत्क्रमणार्थं च नैव प्रयतते कदाऽपि । किन्तु वयमन्यरीत्या चिन्तयितुमालोचयितुं वा नैव प्रभवामः । वस्तुतः सम्भाव्यतारूपो बुद्धः पापिन्यपि विद्यत एव । तस्य भविष्यत् तत्राऽस्त्येव । शक्यस्वरूपोऽयं बुद्धः सुषुप्तो बुद्धस्त्वयि मयि तस्मिन् सर्वस्मिश्चाऽपि प्रतिपत्तव्य एव भवति । गोविन्द ! जगदिदं हि नाऽस्त्यपूर्णं नाऽपि च दीर्घपथेन पूर्णत्वं प्रति उत्क्रान्तिमत् । तत् तु प्रतिक्षणं सर्वथा पूर्णमेवाऽस्ति । प्रत्येकं पापमन्तर्निहितपुण्यबीजमेव भवति, प्रत्येकं शिशुर्वार्धक्यसम्भावनां स्वस्मिन् धारयत्येव, प्रत्येकं स्तनन्धये मृत्योः शक्यता निहिताऽस्त्येव, प्रत्येकं मरणासन्नो स्वस्मिन् शाश्वततत्त्वं धारयत्येव । इतरो जनो मार्गे कियद्दूरे वर्तते इति ज्ञातुं न केनाऽपि शक्यते । यतः, कस्मिंश्चिल्लुण्टाके द्यूतकारे वाऽपि बुद्धो वर्तेत, कस्मिंश्चिच्च ब्राह्मणेऽपि लुण्टाको विद्येताऽपि । गाढध्यानवेलायां समाधौ वैव कालातिक्रमणं शक्यं, युगपदेव भूत-वर्तमानानागतं च द्रष्टुं शक्यं; ततश्च प्रत्येकं वस्तु पूर्णमेव, शुभमेव, ब्रह्मैव । अतो ममेदं प्रतिभाति यद् अस्तित्वयुतं प्रत्येकं वस्तु शुभमेवाऽस्ति - मरणं जीवनं चाऽपि, पापं च पुण्यं च, वैदुष्यं च मूर्खत्वं चाऽपि । प्रत्येकं वस्तु यथावस्थितं सुन्दरमेवाऽस्ति, प्रत्येकं वस्तु ममाऽनुमति ममाऽभ्युपगमं चैवाऽपेक्षते, मम स्नेहं सद्भावमेव च प्रतीक्षते । यद्येतत् स्यात् तदा मम सर्वत्र-सर्वदा च शुभमेव भवति, न किञ्चिदपि च मामुपद्रोतुं पीडयितुं वा समर्थं भवति । अहं मे शरीरादात्मनश्च सकाशात् बढेव शिक्षितवान् यथा - मया पापं कर्तव्यमनिवार्यमासीत्, कामासक्तिमत्कृते आवश्यक्यासीत्, धन-वैभवप्राप्त्यर्थं मया प्रयतनीयमासीत्; निर्वेदो निराशायाश्च परिसीमा, तत्प्रतीकारकरणं यया रीत्या विस्मरेयं, सर्वस्याऽपि जगतः प्रेम कर्तुं शिक्षेयं, केनचित् काल्पनिकतया पूर्णेन जगता तस्य तोलनं च न कुर्यामहं किन्तु तत् यथावत् स्वीकुर्यां, तस्मिन् स्निह्येयं, अहमपि च तस्यैवांऽशोऽस्मि - इत्येतदर्थं प्रमुदितो भवेयं, तया रीत्या मयाऽनुभवितव्यैवाऽऽसीत् । गोविन्द ! एते एतादृशाश्चाऽन्ये विचारा मम मस्तिष्के सन्ति' । ततः किञ्चिदानम्य सिद्धार्थेनैकः पाषाणखण्डो गृहीतो गोविन्दस्य च दर्शयित्वा कथितं - 'पश्यतु, अयमेकः पाषाणखण्डोऽस्ति, कियच्चित्कालानन्तरं ह्येष उर्वरामृत्तिकारूपेण परिणतो भविष्यति ततश्च वृक्षरूपेण पशुरूपेण मनुष्यरूपेणाऽपि वा परिणतिं प्राप्स्यति कदाचित् । पूर्वं तु मया पाषाणखण्डं दृष्ट्वा कदाचिदेवं कथितं स्यात् – एष तु केवलं कश्चन प्रस्तरखण्डः, अस्य न किमपि मूल्यं महत्त्वं वा, मायास्वरूपस्य जगतोऽश एषः, किन्तु परावर्तमाने जगति कदाचिदेष मनुष्यत्वं ब्रह्मत्वं चाऽपि प्राप्तुं समर्थः, अत एव चाऽस्य महत्त्वमस्तीति । किन्त्वधुनाऽहमेवं चिन्तयामि यदेष पाषाणखण्ड: पाषाणस्त्वस्त्येव, एष पशुर्देवो बुद्धश्चाऽप्यस्ति । अहं तमेतदर्थं नैव पूजयामि प्रीणामि वा यदेष पुरा कश्चनाऽऽसीत् भविष्यति चाऽन्यविधः कश्चन भविष्यति, किन्तु स पूर्वमेव सर्वरूपोऽस्त्येव सर्वकालं चाऽपि सर्वरूपोऽस्ति । अहमेनं प्रीणामि यतः अयं प्रस्तरोऽस्ति, अद्याऽधुना च स मे प्रस्तरयाऽध्यक्षीभवन्नस्ति । तस्य प्रत्येकं रेखाः, सूक्ष्माण्यङ्कनानि, लघूनि छिद्राणि, पीत-धूसरादिवर्णाः, काठिन्यं, तदभिघातशब्दः, तस्य शुष्कत्वं क्लिन्नत्वं १०७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy