________________
वा चेति सर्वत्र किञ्चिन्मूल्यवत्ता सार्थकता च विद्यत एव । तादृशाः पाषाणखण्डा भवन्ति ये तैलमया इव फेनकमिव वा भासन्ते, अथवा पर्णवत् रेणुवद् वाऽपि भासन्ते, प्रत्येकमेते भिन्न-भिन्नाः, स्वकीयपद्धत्यैव च ओङ्कारमुपासते, प्रत्येकमपि च ब्रह्मण एव स्वरूपाणि । किन्तु समकालमेव एते प्रस्तरस्वरूपा अपि सन्त्येव, भवन्तु नाम तैलमया फेनकसमा वा । एतदेव मां प्रीणयति अद्भुतं च प्रतिभाति, उपासनार्हं च भासते । किन्त्वेतद्विषयेऽहमधिकं न किञ्चिद् वक्ष्ये । यतः शब्दैविचाराणामभिव्यक्तिः सम्यङ् नैव जायते । यदा वयं विचाराणामभिव्यक्तिं कुर्याम तदा सर्वदा ते किञ्चिदिव परावर्तन्ते, किञ्चिद् विकृता भवन्ति स्वल्पतया मूर्खत्वयुता अपि भवन्ति । एवं सत्यपि, एकस्य जनस्य यन्मूल्यवत् प्रज्ञापरं च भासते तदेवेतरस्याऽसम्बद्धमनर्थकं च भासते – इत्येतदपि मां प्रीणयति समुचितं च भासते' ।
गोविन्दः शान्त्या शृण्वन्नासीत् । किञ्चिन्मौनानन्तरं तेन स्खलद्वाचा पृष्टं – 'किमर्थं भवान् मे पाषाणविषयकं कथनं कथितवान् ?'
'अहो ! तत् त्वहं विना कञ्चनाऽऽशयमेव कथितवान् । किन्तु कदाचित् तदेवमपि ज्ञापयति यन्मे - पाषाणो, नदी, सर्वाणि चाऽन्यानि वस्तूनि यानि वयं पश्यामः यतश्च वयं किञ्चित् शिक्षामहे - तत् सर्वमपि रोचते । अहं पाषाणमपि प्रेमविषयं कर्तुं शक्नोमि, वृक्षं वल्कलखण्डं वाऽपि च । एतानि सर्वाण्यपि वस्तून्येव, तानि च कश्चन प्रीणात्येव । किन्तु शब्दानहं नैव प्रीणीयाम् । ततश्चोपदेशा मत्कृते न किञ्चिदुपयोगिनः, यतस्तेषु नास्ति काठिन्यं, न मार्दवं, नैव वर्णाः, नाऽपि कोणाः, न हि गन्धः, न च स्वादः । ते हि अन्यत् किञ्चिदप्यभूत्वा केवलं शब्दा एव सन्ति । एते शब्दा एव भवन्तं शान्तिप्रापणे बाधकाः स्युः कदाचित् । अस्मिन् जगति अत्यधिकाः शब्दाः सन्ति, मोक्षार्थं गुणार्थं चाऽपि बहुशो बहवः शब्दाः प्रयुज्यन्ते, अतो मन्येऽहं यत् संसारो निर्वाणं चेत्यादयः केवलं शब्दा एव गोविन्द ! । निर्वाणं नाम न किञ्चित् सत् तत्त्वं, परन्तु केवलं शब्द एव' ।
गोविन्देनोक्तं – 'भोः ! निर्वाणं न केवलं शब्दः, तत् तु विचारोऽस्ति मित्र !' ।
सिद्धार्थोऽनुवर्तितवान् – 'भवतु स विचारः, किन्तु मया स्वीकर्तव्यमेवैतद् यन्मम दृष्टौ विचारस्य शब्दस्य च मध्ये नाऽस्ति भूयान् भेदः । स्पष्टं वदामि चेत् अहं विचारान् महत्त्वयुतान् नैव मन्ये । उदाहरणार्थं कथयामि – अत्र नाविकरूपेणैको मनुष्य आसीद् यो हि मे पूर्वगामी गुरुश्चाऽऽसीत् । स एकः पवित्रो मानव आसीत् यो वर्षाणि यावत् केवलं नद्यामेव विश्वसितवान् नाऽन्यत्र कुत्रचित् । नद्या ध्वनिस्तेन सह भाषते इति स लक्षितवान् । स तत एव शिक्षितवान्, ध्वनिश्च तमध्यापितवान् पाठितवांश्च । नदी हि तस्य कृते भगवानासीत् । बहूनि वर्षाणि यावदेतदपि नैव ज्ञातवान् स यत् प्रत्येकं वायुः, प्रत्येकं मेघः, प्रत्येकं पक्षी, प्रत्येकं भ्रमरश्चाऽपि समानतयैव दिव्या ज्ञानवन्तो नदीवच्च बोधदानाय समर्था एव । किन्तु यदाऽयं पवित्रो जनो वनं गतवांस्तदा स सर्वमपि ज्ञातवान्, विनैव गुरुं पुस्तकानि च स भवत्तो मत्तश्चाऽप्यधिकतया ज्ञातवान्, यतः स नद्यां पूर्णतया विश्वसिति स्म' । गोविन्देन कथितं – 'किन्तु भवान् यं पदार्थं वस्तुरूपेण जानाति स किं वास्तविकस्तात्त्विकश्च ?
१०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org