SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ गच्छता सिद्धार्थेन घनेऽरण्ये वानरयूथमेकं दृष्टं, यद्धि वृक्षाणामुच्चशाखासु प्लवमानं सोन्मादं सोत्साहं च चीत्कुर्वन्नासीत् । अग्रे च तेन मेषाः स्वयूथ्यैः सह विहरन्तो दृष्टाः । एकत्र तडागे तेन क्षुधो निवारणार्थं वेगेन तरन्तो मत्स्या दृष्टाः, तन्मार्गादन्यत्र सरन्तः संक्षुब्धाः स्फुरन्तश्च लघुमीनाश्चाऽपि दृष्टाः । तेषां च पृष्ठतो धावमानस्य रोषाकुलस्य महामत्स्यस्य सामर्थ्यं जिघृक्षामपि च स तदुत्सारितजलावर्ते प्रतिबिम्बिते विलोकितवान् । एतत् सर्वमपि हि सर्वदा प्रवर्तमानमासीत् किन्तु तेन कदाऽपि नैव दृष्टं तत्, वस्तुतः स तं द्रष्टुमुपस्थितो नाऽऽसीत् । इदानीं स न केवलमुपस्थितोऽभवत् प्रत्युत तदंशभूत एव जातः । प्रसन्नमनसा स प्रकाशं छायां च विलोकितवान् चन्द्रं तारकाश्च साक्षात्कृतवान् । मार्ग क्रामतस्तस्य, जेतवनस्य सर्वोऽप्यनुभवः स्मृतिपथमायातः - भगवतो बुद्धादुपदेशश्रवणं, गोविन्दाद् वियोजनं, परमज्ञानिना च बुद्धेन सह संभाषणम् । भगवते तेन यदपि कथितमासीत् तस्य प्रत्येकमपि शब्दस्तस्य स्मृतौ यथावदासीत् । तथा यद् वस्तु स स्वयं न ज्ञातवान् तत् तेन भगवते कथमिव कथितमित्यस्याऽऽश्चर्यमद्याऽपि तच्चित्ते जागर्ति स्म । स भगवते किं कथितवान् आसीत् ? - यथा – बुद्धस्य परमज्ञानं परमरहस्यं चोपदेशानर्हमासीत्, वस्तुतस्तदनिर्वचनीयमव्यवहरणीयं चाऽऽसीत्, तथा भगवता बुद्धेन स्वीयसम्बोधिकाले यदनुभूतमासीत् तदेवाऽनुभवितुं तेन प्रवृत्तमासीदिदानीम्, इतः परं स तदेवाऽनुभवितुं प्रारप्स्यते । सर्वैरपि हि स्वयमेवाऽनुभवः प्राप्तव्यः खलु ! स चिरकालाज्जानाति स्म यत् स स्वयमेवाऽऽत्माऽस्ति - ब्रह्मवच्छाश्वतस्वभावः, किन्तु स तं कदाऽपि नैव साक्षात्कृतवान् - यतः स तं विचारजालेन ग्रहीतुमैच्छत् । सोऽजानाद् यद् - इदं शरीरं हि निश्चिततयाऽऽत्मा नाऽऽसीत्, नाऽपि चेन्द्रियाणां विलासः, न विचाराः, न हि बोधः, नैव पाण्डित्यं, नाऽपि च तादृशी कला यया निर्णेतुं शक्येत विद्यमानैश्च विचारैर्नूतनी विचारधारा वा सृज्येत । नहि नहि, विचाराणां जगत् खल्वस्मिन् पार्श्व एवाऽऽसीत्, तच्च, यदा कश्चित् काल्पनिकचेतनां स्वचित्ताद् विनाशयेत् तदाऽपि, किञ्चिद् निश्चितं लक्ष्यं नैव प्रापयति स्म प्रत्युत तां चेतनां विचारैः पाण्डित्येन च पूरयति स्म । विचारा इन्द्रियाणि च नूनं शोभनान्यासन्, तेषां च पृष्ठतो बहूनि रहस्यानि निलीनान्यासन्; यद्यपि उभयोरपि श्रवणं तथोभाभ्यामपि क्रीडनमप्यावश्यकमासीत्, परमन्यतरस्याऽपि तिरस्करणमधिकमूल्याङ्कनं वाऽनुचितमासीत् । उभयोरपि ध्वनेनिष्ठया श्रवणमेवोचितमासीत् ।। अतस्तेन निश्चितं यद् - यदान्तरः शब्द आदिशेत् तदेव कर्तव्यं, तथा, यत्र कुत्राऽपि नैव स्थातव्यं किन्तु तत्रैव स्थातव्यं यत्र स शब्दः सूचयेत् । यतो, यदा हि गौतमेन सम्बोधिः प्राप्ता तदा स किमर्थं बोधिवृक्षस्याऽधस्तादुपविष्टः ? नूनं स स्वस्याऽन्तःसम्भूतं ध्वनि श्रुतवान् आसीद् - येन शब्देन तस्य तत्रैवोपवेष्टुं ध्यातुं चाऽऽदिष्टम् । तेन च शरीरस्येन्द्रियाणां च दमनमकृत्वा, यज्ञादिकमविधाय, स्नानानि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy