SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सिद्धार्थः द्वितीयभागः जर्मनभाषायां मूललेखकः हरमानहेसः आङ्ग्लभाषायामनुवादकः हिल्डा-रोसनरः संस्कृतानुवादकः मुनिकल्याणकीर्तिविजयः १. कमला स्वीयवर्त्मनः प्रत्येकं पदे सिद्धार्थः किञ्चिन्नूतनं शिक्षितवान्, यतस्तस्य कृते सकलमपि जगत् परिवर्तितमासीत् खलु ! तेन च परिवर्तनेन सोऽत्यन्तमाह्लादितोऽभवत् । सोऽरण्ये पर्वतेषु च सूर्यमुदयन्तं निरीक्षितवान् तथा तालवृक्षाच्छादिते दवीयःसमुद्रतटेऽस्तमनमपि विलोकितवान् । निशि स सुविशालं तारकितं नभो दृष्टवान्, नीले प्रवाहे च प्रवहन्तं नावाकृति चन्द्रमसमपि स निर्वर्णितवान् । स वृक्षान्, नक्षत्राणि, प्राणिनः, जलधरान्, इन्द्रचापान्, शिलोच्चयान्, आरण्यकस्तम्बान्, पुष्पाणि, निर्झरान् सरितश्च, प्रभाते च वनस्पत्यग्रे स्फुरत्प्रभान् अवश्यायकणान्, सुदूररमणीयां पर्वतमालां, कूजतः पक्षिणः, गुञ्जन्तीमधुमक्षिकाः, मृदुपवनैर्दोलायमानानि च व्रीहिक्षेत्राणि विस्मयमुग्धतया निरीक्षितवान् । वर्णसहस्रैर्वणितं रूपसहस्रैश्च शोभमानमेतत् सर्वमपि सर्वकालं प्रकृतौ विलसदासीत् । सूर्यश्चन्द्रश्च सर्वदा प्रकाशमानावास्तां, नद्यो हि सर्वदा प्रवहन्त्य आसन्, मक्षिकाश्च सर्वदा गुञ्जन्त्य आसन्; किन्तु पूर्वं ह्येतत् सर्वमपि सिद्धार्थस्य निरर्थकं प्रतिभाति स्म, सर्वमपि क्षणिकं मायाजालमयमावरणरूपं चैवाऽनुभूयते स्म, सर्वमप्यप्रत्येयतयैव विलोक्यते स्म, निन्द्यतयोपेक्ष्यते स्म, विचारप्रदेशाच्च निर्वास्यते स्म । यतः सर्वमप्येतत् वास्तविकं न, यतो वास्तविकता हि दृश्यजगतोऽपरस्मिन् पार्वे निहिताऽऽसीत् । किन्त्विदानीं तस्य दृष्टिरस्मिन् पार्वेऽपि विचरिता । दृश्यं सर्वमपि स दृष्टवान् प्रतिपन्नवांश्च, तथाऽत्र जगति स स्वीयं स्थानमपि निरूपितवान् । इदानीं वास्तविकताया निरूपणे तस्याऽऽसक्तिर्नाऽऽसीत् नाऽपि चाऽन्यः पार्श्वस्तस्य ध्येयम् । अन्यत् किञ्चिदपि यदि न काम्येत तदा जगदिदमत्यन्तं सुन्दरमत्यन्तं सरलं शिशुतुल्यं निष्पापं चाऽऽसीत् । चन्द्रस्तारकाणि च सुन्दराण्यासन्, निर्झराः, समुद्रतटः, अरण्यं, पर्वताः, पशव: सुवर्णवर्णा भ्रमराः, पुष्पाणि पतङ्गाश्चेति सर्वमपि सुन्दरमासीत् । ईदृशे सहजे, सरले, प्रबुद्धे, सन्निहितेनैव च सम्बद्ध आशङ्कारहिते च जगति विचरणमप्यतिसुन्दरमतीव मनोरमं चाऽऽसीत् ।। ____ अन्यत्र हि सूर्यः प्रखरतया तपन्नासीत्, अन्यत्र च घनारण्यच्छायासु शीतलता प्रवर्तते स्म, अन्यत्र च कूष्माण्डानि कदलीफलानि च विलसन्ति स्म । दिनं रात्रिश्च लघूभूते भासेते स्म, समुद्रे विचरन्त्या नौकाया वातपटमिव प्रत्येकं मुहूर्तं जवेन संचरति स्म - निधानैः पूर्णमानन्देन च पूर्णम् । ५१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy