________________
तेन स्वगुरोस्तीर्थकरस्य तिरस्कारोऽवर्णवादश्च कृतः । यदा भगवान् गौतमाय तस्य वास्तविकस्वरूपमकथयत् तदा क्रुद्धो गोशालकस्तीर्थकरस्योपर्येव तेजोलेश्याममुञ्जत् ।
किमेतद् ज्ञानमुच्येत ? नैवम् । येन चित्ते राग-द्वेषादिदोषा उत्पद्यन्ते तन्न ज्ञानमपि त्वज्ञानमेवाऽस्ति । भो ! अन्नस्याऽजीर्णं भवमेकं नाशयेत् किन्तु ज्ञानस्याऽजीर्णं तु बहून् भवान् नाशयेत् । अस्मिन् भवेऽपयशो मानहानिं चाऽवाप्नुयात् तथा परलोके तु केवलं दुर्गतिमेवाऽवाप्नुयाद् ज्ञानाजीर्णवान् सः । अतो न कदाऽपि ज्ञानस्योन्मादः करणीयः ।
ज्ञानी सहिष्णुः स्यात् । यः कश्चिदपि स्वसूक्ष्मबुद्ध्या ज्ञानस्य प्रकर्षतां प्राप्तुं शक्तः । ततः समा तस्य प्रशंसा स्यात् । तस्मिन् काले कदाचिदपि परिणतज्ञानी एष तु एतादृशो लघुः, एतादृशे कुटुम्बे जातोऽस्ति - इत्यादिकं न वदेत्, किन्तु तं प्रशंसेत् ।
-
हन्त ! अद्यतनकालस्य महती दुर्बलताऽस्ति - असहिष्णुता । प्रतिजनं प्रतिगृहं प्रतिसमाजं प्रतिधर्मस्थानकं च क्लेशः प्रवर्तते, तन्मूलमस्ति - असहिष्णुता । सर्वेऽपि जना लघ्वीषु घटनास्वपि क्रोधं क्लेशं च कुर्वन्ति । सर्वे जना "मया यत्कृतं यदुक्तं च तदेव सत्यम्' इति मन्यन्ते, अन्येषां कृत्यं कथनं च सर्वदा तिरस्कुर्वन्ति । ततस्तेषां मध्ये संघर्षः प्रवर्तते । यदि कोऽप्यन्यस्याऽपि कृत्यं कथनं चाऽमुकापेक्षया सत्यं स्यात् इति चिन्तयेत् तदा न कदाऽपि क्लेशो भवेत् । किन्तु सर्वेऽपि जना असहिष्णवः सन्ति । भोः ! अज्ञानिजना यद्येवं कुर्युस्तत्तु क्षम्ययमस्ति किन्तु यदा ज्ञानिनो जना अप्यसहिष्णुतामाश्रयेयुस्तत्तु शोचनीयमस्ति ।
बन्धो ! सर्वस्या अप्यशान्तेर्मूलमस्त्यसहिष्णुता, यतोऽसहिष्णुता भय, शङ्का - आक्रोश - हताशादिदुर्गुणानुत्पादयति । एतेषां दुर्गुणानामधीनो जनोऽशान्तिमेवाऽवाप्नोति ।
एतत् कथनं कठोरं किन्तु सत्यमस्ति यद् अधुना प्रायो ज्ञानं घृणामहङ्कारं तुच्छतां क्षुद्रतां चैव वर्धयति - इति प्रतिभाति । ज्ञानिजनानां परस्परं क्लेशं घृणां च दृष्ट्वा मनसि प्रश्नो भवति किमेष ज्ञानी उच्येत ?
१. मोटाओनी अल्पता जोइ थाक्यो
नानानी मोटाइ जोइ जीवुं छं.
एका पङ्क्तिः स्मर्यते
पण्डितः पण्डितं दृष्ट्वा श्वानवद् घुघुरायते ||
-
इदानीमेवैकं काव्यं पठितम् – महाजनानां लघुतां दृष्ट्वा व्यथितो जातस्तथा लघुजनानां महत्तां दृष्ट्वैव जीवामि ।
बन्धो ! जना महत्तां तदैव प्राप्नुयुः यदा जीवने ज्ञानं परिणतं स्यात् । अतस्त्वमपि जीवने ज्ञानं परिणमयितुं शक्तः स्यादित्याशासे ।
Jain Education International
-
-
-X
-
उमाशंकर जोशी
५०
For Personal & Private Use Only
www.jainelibrary.org