________________
परिणतज्ञानी कीदृशः स्यात् ?
स गभीरः सरलो नीतिमान् सहिष्णुश्च स्यात् । यथा
गभीरः
यस्य चित्ते ज्ञानं परिणतमस्ति स सागर इव गम्भीरः स्यात् । केनाऽपि स्वप्रतिष्ठा खण्डिता, केनाऽप्यवमाननं कृतं, केनाऽपि निन्दा कृता, केनाऽप्याक्षेपः कृतः कस्याऽपि दुर्बलताऽज्ञानता च दृष्टा, कस्याऽपि स्खलना जाता - इति सर्वमपि दृष्ट्वा ज्ञात्वा चाऽपि सहते, किन्तु न निन्दति, न च क्रुध्यति ।
-
-
ज्ञानी सरल: स्यात् । मायाप्रपञ्चादिरहित एव स्यात् । तस्य मनसि वचसि काये चेति योगत्रये - ऽप्यैक्यं स्यात् । ज्ञानस्य फलं सरलता, न च वक्रता । हन्त ! अद्य सर्वं विपरीतत्वेन दृश्यते । ज्ञानं त्वबुधजनवञ्चनस्य साधनं स्यात् इति प्रतिभाति । बुद्धिचातुर्यस्योपयोगः कस्याऽपि जनस्य साहाय्यार्थं क्रियते तर्हि तत् सफलं, किन्तु कस्याऽपि कार्ये विघ्नकरणार्थं बुद्धिर्व्याप्रियते यदा तदा न तज्ज्ञानं (चातुर्यम्) अपि त्वज्ञानमेव ज्ञेयम् । पठितजनैर्यावती मायाक्रीडा क्रियते सा त्वनन्यसाधारण्येव ।
भो ! एकोनविंशं तीर्थकरं मल्लिनाथप्रभुं स्मर । पूर्वभवे धर्मक्रियायां मित्रैः सह माया कृता । मायाकरणे शुभभाव एवाऽऽसीत् तथाऽपि माया तु मायैवोच्यते, तत्र न कोऽपि रक्षणोपायोऽस्ति । अद्य प्रशस्तमाया करणीया - इति केचिद् वदन्ति, किन्तु तन्नोचितम् । यतस्तद् यद्युचितं स्यात्तर्हि भगवान् मल्लिनाथः स्त्रीरूपेण तीर्थकरत्वं न प्राप्नुयात् । ज्ञानस्य फलमेतदेव यत् सर्वेष्वपि व्यवहारेषु सरलता स्यात् ।
ज्ञानी नीतिमान् स्यात् । मानवीयविकासस्य मूलमस्ति नीतिरेव । तस्या नीत्याः संस्कारा अवाप्यन्ते शालातः । किन्तु हन्त ! तत्रैव यद्यनीतिरसत्यमसदाचारश्चेत्यादिकानि कुकृत्यान्याचर्यन्ते तर्हि जनैः कुतो नीत्यादिकं शिक्ष्येत ? अद्य कस्मिन्नपि स्थाने नीतिमान् जनो न दृश्यते । यदि कदाचित् कोऽपि सज्जनो नीतिमाचरितुं प्रयतेत तर्हि समीपस्था जना एव तं त्रासयेयुः ।
पूर्वमेतादृश: काल आसीद् यत्, शालायां पुस्तकस्थितज्ञानस्य मूल्यं नाऽऽसीत्, न च 'सी.ए., एम.बी.ए., एम.बी.बी.एस. इत्यादिबिरुदानामपि मूल्यमासीत् किन्तु नीतिमत्तायाः सदाचारस्य मानवता - याश्चैव मूल्यमासीत् । शालास्वपि शिक्षणस्य व्याजेनैतादृशानां गुणानां विकासे एव महत्त्वं दीयते स्म । इदानीं तु शालायां ज्ञानमुताऽज्ञानं पाठ्यते इत्येव प्रश्नोऽस्ति ।
एवं ज्ञानी, द्वेषी क्रोधी पक्षपाती तिरस्कारवृत्तिमाँश्च न स्यात् । यत एते तु दोषाः सन्ति, ज्ञानं गुणोऽस्ति । यज्ज्ञानेन चित्ते विकारा दुर्गुणाश्चोत्पद्यन्ते तद् ज्ञानमेव नोच्यते । उक्तं च
तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥
Jain Education International
बन्धो ! गोशालको दृष्टिपथमायाति । स भगवतो महावीरस्य शिष्य आसीत् । स भगवत: सकाशादेव बहु ज्ञानं प्राप्तवान् किन्तु तज्ज्ञानं न परिणतं जातं, ततश्चित्ते उन्मादो जागृतः । तदुन्मादवशेन
४९
-
For Personal & Private Use Only
www.jainelibrary.org