SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पत्रम् मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । सर्वेषां गुरुभगवतां देहः समीचीनो वर्तते । तत्राऽपि सर्वेषां कुशलं कामये । कर्णावतीनगरे 'शासनसम्राट्भवन'स्य समारोहः कृत आसीत् । अस्मिन् भवने जिनशासनोद्योतकानां महापुरुषाणां शासनसम्राटश्रीविजयनेमिसूरीश्वराणां च नयनरम्याणि चित्राणि मनोहरा रचनाश्च प्रदर्शिताः सन्ति । सहैव लक्षाधिकानां पुस्तकानां चित्कोषोऽपि विद्यते । एतद्भवनस्योद्घाटनेऽनेकेषां विद्वज्जनानां साहित्यसंगोष्ठिः सङ्गीतविदां च सङ्गीतसभाऽपि आयोजिताऽऽसीत् । एतत् सर्वं कार्यं निष्पाद्य गोधरानगरे आगतवन्तो वयं स्मः । बन्धो ! अद्य ज्ञानमुद्दिश्य किञ्चिल्लिखामि । स्वभावलाभस्य यत् कारणं तद् ज्ञानमुच्यते । दुर्गुणरूपविभावस्य नाशे यत् कारणं तन्नाम ज्ञानम् । यस्य ज्ञानस्य वृद्ध्या सह गुणानामपि वृद्धिः स्यात्, गुणान् प्रति रागस्तथा गुणिजनान् प्रत्यादरो बहुमानश्चाऽपि विवर्द्धत, स्वकीयान् दुर्गुणानज्ञानं च प्रत्यपि दृष्टिपातो येन भवेत्, तदेव वस्तुतो ज्ञानत्वेनोच्यते । ___ ज्ञानवृद्धिना सह दर्शनस्य चारित्रस्य चाऽपि परिणतिर्वर्द्धनीया स्यात् । चित्ते भगवता समादिष्टायां क्रियायां प्ररूपिते मार्गे च श्रद्धा दृढीभवेद् । संसारिजीवत्वेन संसारकार्याणि कुर्वन्नपि चित्ते "एतानि कार्याणि करणीयानि न सन्ति, आत्मनः कृतेऽहितकराण्येव सन्ति, तथाऽपि कर्मवशेनैतानि करोमि" इति भावः स्थिरः स्यादेव । दर्शन-चारित्रादिगुणैः सह सारल्यक्षमौदार्यादिगुणानामपि विकासो येन भवेत् तद् ज्ञानत्वेनोच्यते । बन्धो ! शास्त्रस्याऽध्ययनमध्यापनं च सुकरमस्ति, किन्तु ज्ञानस्य चित्ते परिणमनं तु दुर्लभमस्ति । अद्याऽनेकग्रन्थानामध्येताऽध्यापको रचयिता च समाजे 'ज्ञानी'त्युच्यते, किन्तु वस्तुतः स एव ज्ञानी यः परिणतज्ञानोऽस्ति । यथा यथा शास्त्राध्ययनं क्रियेत तथा तथा चित्ते तज्ज्ञानं परिणतं भवेत् । जना ज्ञानप्राप्तेः शक्तिमवाप्नुवन्ति किन्तु तज्ज्ञानस्य परिणमनशक्तिं न प्राप्नुवन्ति, तद् दुर्भाग्यमुच्यते, यतो ज्ञानप्राप्तिरन्या ज्ञानपरिणमनं चाऽन्यद्, इति ज्ञेयम् । ज्ञानप्राप्तिर्दुर्गुणवृद्धः कारणं भवितुं शक्या, तथा तस्यैव ज्ञानस्य परिणमनं दुर्गुणनाशस्य कारणमपि भवति । परिणतज्ञानवशेन तस्य वर्तने भाषायां च सारल्यं स्यात्, सर्वानपि प्रति समभाव आदरश्च स्यात्, किन्तु कमपि प्रति द्वेषवृत्तिस्तिरस्कारवृत्तिश्च न स्यात् । सर्वैः सहौदार्ययुतं व्यवहारमेव कुर्यात् सः । ४८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy