________________
प्रार्थनाश्च न कृत्वा, खाद्य-पेयादिकं निद्रा-स्वप्नादिकं वा विधानमनाश्रित्य केवलं तदादेशस्यैव पालनं कृतं सम्बोधिश्च प्राप्ता । बाह्यं कमप्यादेशमवधीर्य केवलमान्तरशब्दस्यैव श्रवणमनुसरणं च, तथा तदर्थमेव सज्जत्वं च श्रेयःकारि नितरामावश्यकं चाऽप्यासीत् । अन्यत् किमप्यावश्यकं नाऽऽसीत् । ___तस्यां रात्रौ स कस्यचिन्नाविकस्य तृणकुट्यां शयितः । निद्रायां तेनैकः स्वप्नो दृष्टः । स्वप्ने हि, भिक्षुकाणां काषायवस्त्रं धृत्वा गोविन्दस्तत्समक्षं स्थित आसीत् । स उदासो दृश्यते स्म सिद्धार्थं च पृच्छति स्म – 'भवान् किमर्थं मां त्यक्त्वा गतवान् ?' एतच्छ्रुत्वा स गोविन्दं परिष्वज्य सान्त्वयित्वा च तन्मस्तकं चुम्बितवान् । एतावता गोविन्दः स्त्रीत्वेन परिणतः । तस्याश्च स्त्रिया वस्त्राञ्चलात् पूर्णावुरोजौ प्रकटीभूतौ । सिद्धार्थश्च मुखं नामयित्वा ततः पयःपानं कृतवान् । तद्धि पानं मधुरमूर्जस्वि चाऽऽसीत् । तस्मिंश्च पाने स्त्रियाः पुरुषस्य च, सूर्यस्य वनस्य च, प्राणिनां, पुष्पाणां, प्रत्येकं फलानां, प्रत्येकं सुखानां च स्वाद आसीत् । पानं च तत् सर्वथोन्मादकमासीत् ।
यदा स जागृतस्तदा पाण्डुरा नदी कुट्या द्वारस्याऽग्रे विलसमाना प्रवहन्त्यासीत्, अरण्याच्चोलूकस्य गभीरः स्पष्टश्च शब्दोऽश्रूयत ।
___ सूर्योदयानान्तरं सिद्धार्थः स्वस्याऽऽतिथ्यकारिणं नाविकं नद्याः पारं प्रापयितुं प्रार्थितवान् । नाविको हि सिद्धार्थं स्वीयवंशमयतरण्डेन नदीपारं नीतवान् । नद्या विशालो जलविस्तारो बालसूर्यकिरणै रक्तिमानं वहन्निव द्योतते स्म ।
अथं च तत्सौन्दर्यं दृशा पिबन् सिद्धार्थो नाविकमुक्तवान् – 'एषा नदी ह्यतीव सुन्दरा खलु !'
'आम्' नाविकः कथितवान्, 'एषा नदी सुन्दरतमा । अहं तां सर्वतोऽप्यधिकं प्रीणामि । अहमनेकशस्तां श्रुतवान् निरीक्षितवांश्च, तथाऽहं सर्वदाऽपि तत्सकाशात् किञ्चिदिव शिक्षितवानप्यस्मि । नदीसकाशाज्जनो बहु शिक्षितुमर्हति' ।
_ 'उपकृतोऽस्मि सौम्य !', नद्या अपरस्मिन् तटेऽवतरन् सिद्धार्थोऽवदत्, 'किञ्च, भवता क्षन्तव्योऽहं यतो मत्पार्वे भवते तरषण्यं दातुं न किञ्चिदप्यस्ति । अहं हि निराश्रय एको ब्राह्मणपुत्रोऽस्मि, श्रमणश्च जातोऽस्मि' ।
'तत् त्वहं पश्याम्येव । अहं भवत्तो न किञ्चिदप्यपेक्षे । भवान् ह्यन्यदा कदाचित् मे दातुमर्हति' । इति नाविको मृदुतयोक्तवान् ।
'किं भवतो विश्वासोऽस्ति यदहमन्यदा दास्यामीति?' सिद्धार्थो हसन् पृष्टवान् ।
'अवश्यम् । नदी मामेतच्छिक्षितवत्यस्ति यत् प्रत्येकं वस्तु प्रतिनिवर्तत एव । भवानपि भोः श्रमण ! अवश्यं प्रतिनिवर्तिष्यते । भद्रं भवते भूयात्, भवतो मैत्र्येव मे तरपण्यं भवतु । भगवत्पूजाकाले च मां स्मरतु भवान्' – नाविकस्तमुक्तवान् ।
ततः स्मित्वा द्वावपि स्वस्वमार्ग प्रस्थितौ । नाविकस्य स्निग्धव्यवहारेण सिद्धार्थः प्रसन्नो जातः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org