________________
'एष गोविन्दसदृश एवाऽस्ति' इति चिन्तितवान् सिद्धार्थः । 'येऽपि मां मार्गे मिलन्ति ते सर्वेऽपि गोविन्दतुल्या एव, सर्वेऽपि कृतज्ञाः सन्ति, सर्वेऽपि च ते स्वयमेव धन्यवादानहन्ति । सर्वेऽपि मे सहयोगिनो भवितुमिच्छन्ति, मम मैत्री वाञ्छन्ति, अधिकमविचारयन्तश्च मम वचनमनुवर्तितुमिच्छन्ति । ननु जना हि शिशतुल्या भवन्ति' ।
मध्याह्ने स कञ्चिद् ग्राममतिक्रामन्नासीत् । मृण्मयकुटीराणां पुरतो रथ्यासु बालकाः क्रीडन्त आसन् । ते हि प्रस्तरखण्डैः गुलिकाभिश्च खेलन्त आसन् । सकोलाहलं ते परस्परं युध्यन्ते स्माऽपि । किन्तु यदा हि श्रमणस्तेषां दृष्टिपथं प्राप्तस्तत्क्षणमेव सर्वेऽपि भयं प्राप्य धाविताः कुत्रचिच्च निलीनाः ।।
ग्रामप्रान्ते चाऽनुमार्गमेव जलस्रोत आसीत् । तत्कूले च काचित् तरुणी किञ्चिदवनम्य वस्त्राणि क्षालयन्त्यासीत् । सिद्धार्थेन तदभिवादने कृते सा शिर उन्नम्य सस्मितं तं दृष्टवती । तस्या अक्षिणी भ्राजमाने आस्ताम् ।
यथोपचारं साशीर्वचनं स तां नगरमार्गविषयिकी पृच्छां कृतवान् । तेन सा तत उत्थाय तत्समीपमागता । सुन्दरे वदने तस्याः क्लिन्नावधरौ स्फुरन्तावास्ताम् । तेन सह वक्तुमुत्सुका सा तं – 'किञ्चिदशितं वे'ति पृष्टवती, तथा 'किं तत् सत्यं यत् श्रमणा वनेषु एकाकिन एव स्वपन्ति ? किं तेषां स्त्रियं परिग्रहीतुमधिकारो नास्ति वा?' - इत्यपि सा पृष्टवती । ततस्तया स्वीयो वामपादः समुत्थाप्य दक्षिणे पादे स्थापयित्वा तादृशोऽङ्गविक्षेपः कृतो यं काचित् कामातुरा स्त्री भोगार्थं पुरुषमामन्त्रयमाणा करोति, यश्च कामशास्त्रेषु 'वृक्षावरोहण'मिति सज्ज्ञया वर्णितोऽस्ति । एतेन सिद्धार्थः स्वीयाङ्गेषूत्तेजनमनुभूतवान्, रात्रौ दृष्ट स्वप्नं च स्मृत्वा किञ्चिदवनम्य स तस्याः कपिशवर्णं चूचुकं चुम्बितवान् । तत ऊर्ध्वं पश्यन् स तस्याः स्मितमयं वासनापूर्णं च वदनं विलोकितवान् । तस्या अर्धनिमीलतनेत्रयोः अत्युत्कटभोगप्रार्थना विलसति स्म ।
सिद्धार्थोऽपि स्वमनसि तामेवोत्कटभोगेच्छामनुभूतवान् । किन्त्वद्यावधि तेन स्त्री स्पृष्टा नाऽऽसीदित्यत आलिङ्गनं कर्तुमुत्सुकोऽपि स किञ्चिदिव साशङ्को जातः । तस्मिन्नेव क्षणे स स्वीयमान्तरं वचनं श्रुतवान् - 'नही'ति । ततश्च तस्यास्तरुण्या मुखात् सर्वमपि आकर्षणमदृष्टं जातमिव । अधुना तत्र केवलं कामार्त्तस्त्रियाः सतृष्णो दृष्टिपात एवाऽवलोक्यते स्म । स मृदुतया तस्याः कपोलं परामृशन् सत्वरमेव निराशायास्तस्याः पुरस्तादेव वंशवनेऽदृश्यो जातः ।।
सायङ्कालात् पूर्वमेव सिद्धार्थः किञ्चिन्महन्नगरं प्राप्तः । स हृष्ट आसीत्, यतस्तस्य जनैः सह संवसितुमभिलाष आसीत् । स बहुकालं यावद् वनेषूषित आसीत्, गतरात्रौ च स नाविकस्य वंशमयोटजे दीर्घकालानन्तरं प्रथमवारमेव छदिषोऽधस्तात् शयितवानासीत् ।
नगराद् बहिः, एकत्र सुन्दरे उपवने करण्डं गृहीत्वा गच्छन्तं परिचारकाणां समूहं स दृष्टवान् । तेषां च मध्ये चतुर्भिर्जनैरुह्यमानायामलङ्कृतायां शिबिकायां रक्तवर्णे उपधाने उपविष्टा तेषां स्वामिनी आसीत् । सिद्धार्थ उपवनद्वार एव स्थिरीभूय तत् सर्वमपि निरीक्षितवान् । स तां शिबिकास्थितां स्त्रियमप्यवलोकितवान् ।
५४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org