________________
घनश्यामकेशकलापमध्ये शोभमानं तस्यास्तेजस्वि सुमधुरमतीव चतुरं च वदनं स दृष्टवान् । तस्या शोणावोष्ठौ प्रत्यग्राञ्जीरखण्डाविव भासुरावास्तां, दीर्घ वक्रे च भ्रुवौ कलात्मकतया वर्णितौ आस्तां, कज्जलाक्ते दीर्घ नेत्रे अतीव विचक्षणे सावधाने चाऽऽस्तां, हरित-सुवर्णमयस्य चोत्तरीयस्योपरि भ्राजमाना विशदा कृशाऽऽयता च ग्रीवाऽऽसीत् । तस्या दी? तनू च हस्तौ मृदू सुग्रथितौ मनोरमसुवर्णकङ्कणैश्च शोभमानावास्ताम् ।
सिद्धार्थस्तस्याः सौन्दर्यं दृष्ट्वाऽभिभूतो जातस्तस्याऽन्तःकरणं च प्रमुदितम् । यदा च शिबिका तत्पुरत आगता तदा स किञ्चिदवनम्योत्थितवान् तस्याश्च तेजस्वि सुरूपं च वदनं, चतुरे दीर्घ च नेत्रे स्थिरदृष्ट्या निरीक्षितवान् । तस्य श्वासेषु च कश्चिदज्ञातः सुगन्धः प्रसृत इव । साऽपि च सुन्दरी शिरश्चालयित्वा स्मित्वा च तदभिवादनं स्वीकृतवती क्षणार्धेन च परिचारकसमूहेनाऽनुत्रियमाणा सोपवनेऽदृश्या जाता ।
सिद्धार्थश्चिन्तितवान् यद् 'नूनं शुभशकुनैर्मया नगरे प्रविष्टं खलु !' । स तूर्णमेवोपवने प्रवेष्टुमुत्सुक आसीत् किन्तु विचारणेन स ज्ञातवान् यत् कथं सर्वेऽपि परिचारका दास्यश्च तं सर्वथाऽवज्ञयाऽविश्वासेन निराकृतिपूर्वं च दृष्टवन्त इति ।
'अहमितोऽपि श्रमण एव', स चिन्तयति स्म, 'अधुनाऽपि साधुरहं भिक्षाचरः । किन्तु तादृशेन मया नाऽवस्थातव्यमन्यथा कथमत्रोपवने प्रवेष्टुमर्हेयम् ?' ततश्चोच्चैर्हसितवान् सः ।।
स उपवनस्य पुरत एव गच्छन्तं कञ्चन जनं पृष्ट्वा तस्याः सुन्दर्या नामादि ज्ञातवान् । उपवनमिदं हि कमलाभिधाया सुविख्यातवाराङ्गनाया आसीत् । तथा नगरमध्येऽपि तस्या एको महालयो निवासस्थानमासीत् ।
ततः स नगरं प्रविष्टः । तन्मनस्येकमेव ध्येयमासीत् । तमेव ध्येयमनुसरन् स समग्रमपि नगरं निरीक्षितवान्, तद्रथ्यासु पर्यटितवान्, कुत्रचित् स्थानेषु स्थिरतया स्थितवान्, प्रान्ते च नद्यास्तटे विश्राम कृतवान् । ..
सायङ्काले स केनचिन्नापितसहायकेन सह मैत्री कृतवान् यं स वृक्षच्छायायां कार्यं कुर्वन्तं दृष्टवानासीत् । ततो विष्णुमन्दिरे तं पुनरप्युपलभ्य स तं विष्णोर्लक्ष्म्याश्च सम्बन्धिनी: कथाः श्रावितवान् । निशि स नदीतटस्थितायां नावि शयितवान्, प्रत्यूषे च ग्राहकागमनपूर्वमेव स नापितसहायकेन क्षौरं कारितवान् केशांश्च तैलसिक्तान् कारयित्वा प्रसाधितवान् । ततः स नदीं गत्वा सम्यक् स्नातवान् ।।
अपराह्ने, यदा सुन्दरी कमला शिबिकया निजमुपवनं प्राप्ता तदा सिद्धार्थो द्वार्येव स्थित आसीत् । स ईषन्नत्वाऽभिवादनं कृतवान् कमलायाश्च प्रत्यभिवादनं प्राप्तवान् । ततः सोऽन्त्यं परिचारकं सञ्जयाऽऽहूय ‘एको ब्राह्मणो युवा भवत्या सह सम्भाषितुमिच्छती'ति सन्देशं कमलायै कथयितुमुक्तवान् । स्तोकवेलयैव स परिचारकः प्रत्यावृत्तः, सिद्धार्थं च स्वेन सह नीतवान् । उपवनमध्ये एवैकत्र मण्डपे पल्यङ्कासीनायाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org