SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कमलायाः पार्वे तं मुक्त्वा स गतवान् । 'ह्य उपवनप्रवेशद्वारि भवतैव मेऽभिवादनं कृतं खलु ! ?' इति कमला तं पृष्टवती। . 'आम् ! मयैव ह्यो भवतीं दृष्ट्वाऽभिवादनं कृतमासीत्' । . 'किन्तु ह्यो भवतः केशा दीर्घा आसन् मुखे च दीर्घकूर्चमासीत्, तथा मस्तकमपि सरजस्कमासीत् खलु ?' 'सम्यङ् निरीक्षितं भवत्या । किन्तु ह्यो भवती ब्राह्मणपुत्रं सिद्धार्थं दृष्टवती यः श्रमणो भवितुं गृहत्यागं कृतवान् वर्षत्रयं च श्रमणीभूय स्थितवान् । अद्य तु, मया त्यक्तोऽस्ति स मार्गः । अस्मिन्नगरे आगतोऽहं सर्वप्रथमं भवतीमेव नयनविषयीकृतवान् । अद्याऽहं भवत्यै कथयितुमागतोऽस्मि यत् - भोः कमले ! भवत्येव प्रथमा स्त्री यस्याः पुरतः सिद्धार्थो नेत्रे अनवनाम्य सम्भाषितवान् । इतः परं यस्याः कस्याश्चिदपि सुन्दाः पुरतोऽहं नेत्रे नैवाऽवनामयिष्यामि' । कमला स्मितवती मयूरपिच्छनिर्मितेन व्यजनेन च क्रीडन्ती पृष्टवती – 'किं भवान् एतावदेव कथयितुं आगतोऽस्ति वा सिद्धार्थ !?' 'भवत्यै एतत् कथयितुं, सौन्दर्यविषये च भवतीमभिनन्दितुमागतोऽहमस्मि । तथा यदि भवती अप्रसन्ना न भवेत् तर्हि अहं भवतीं मम मित्रीभवतुं यस्यां च कलायां भवती विदग्धा तस्याः शिक्षणार्थं मे गुरूभवितुं निवेदयितुमिच्छामि, यतोऽहं तस्यां कलायां सर्वथाऽनभिज्ञः । श्रुत्वैतत् कमलोच्चैर्हसितवती कथितवती च – 'अरण्यवासी कश्चन श्रमणो मां समागत्य किञ्चित् शिक्षितुमिच्छेदिति तु कदाऽपि नैव चिन्तितं मया । तथा, दीर्घकेशयुतो जीर्णवस्त्रधारी च श्रमणः कदाऽपि मत्समीपे नाऽऽगतः । यद्यपि बहवो युवकाः ब्राह्मणपुत्राश्चाऽपि मदन्तिकमागच्छन्ति, किन्तु ते सर्वेऽपि रुचिरवस्त्राणि परिधाय, सुन्दरोपानहौ च धारयित्वाऽऽगच्छन्ति । तेषां केशाः सुगन्धिताः भवन्ति कोषाश्च धनभृता भवन्ति । भोः श्रमण ! एवंरीत्या ते युवानो मदन्तिकमागच्छन्ति' । सिद्धार्थ उक्तवान् – 'मयाऽप्येतावता भवत्याः सकाशात् शिक्षितुमारब्धम् । ह्य एव अहं किञ्चित् शिक्षितवान् । मम कूचं तावदपनीतमेव, केशाश्चाऽपि तैलाक्ताः प्रसाधिताश्च । अधुना बह्ववशिष्टं नास्ति सुन्दरि !, केवलं रुचिरवस्त्रोपानहो धनभृतश्च कोषः - इत्येतदेव ननु ! सिद्धार्थेन त्वितोऽप्यधिककठिनवस्तून्युपलब्धुं प्रयतितं प्राप्तानि चाऽपि तानि । अतः किमर्थमहं तत्र प्रयत्नं न कुर्यां - यदर्थं ह्यो मया निश्चितं - भवत्याः मैत्री प्राप्तुं भवत्सकाशाच्च कामकलाया आनन्दं शिक्षितुम् ? अहं भवत्या योग्यो विद्यार्थी भविष्यामि कमले ! यतो यद् भवत्या शिक्षयितव्यमस्ति ततोऽपि मया कठिनतरं शिक्षितमस्ति । अतो वदतु सुन्दरि ! उत्तमवस्त्रादिहीनो धनरहितश्चाऽपि प्रसाधितकेशः सिद्धार्थो भवत्या दृष्टौ उचितोऽस्ति न वा ?' कमला हसितवती । तया कथितं – 'नैव । सोऽधुनाऽपि अयोग्यः । तेन अवश्यं वस्त्राणि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy