SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ परिधातव्यानि - सुन्दरवस्त्राणि, तथोपानहावपि - सुन्दरोपानहौ । तथैव तस्य कोषोऽपि धनपूर्णः स्यात्, तत्पार्श्वे च कमलायाः कृते बहून्युपायनान्यपि स्युः । किं ज्ञातं भवता ? भो अरण्यवासिन् श्रमण ! किमवबुद्धं भवता ?' 'सम्यगवबुद्धं मया भोः' सिद्धार्थ उच्चैरवदत् । ‘एतादृशान्मुखाद् यन्निर्गच्छेत् तत् कथमहं नावबुध्येय ? भवत्या मुखं प्रत्यग्राञ्जीरखण्डमिवाऽस्ति कमले !, ममाऽपि चौष्ठौ शोणवर्णौ नवीनौ च । तौ भवत्या ओष्ठयोः सम्यक् अनुरूपौ - इति द्रक्ष्यति भवती । किन्तु कमले ! कथय मां - किं भवती कामकलां शिक्षितुमागतादरण्यवासिनः श्रमणाद् भीता तु नास्ति वा ? ' ‘किमर्थं मयाऽरण्यवासिनो मूर्खश्रमणाद् भेतव्यं यः शृगालैः सह वसति, स्त्रीविषयकं च न किमपि जानाति ?' 'अरे ! स श्रमणो बलवान् निर्भयश्चाऽस्ति । स कदाचिद् भवत्या सह बलादपि व्यवहरेत् भोः सुन्दरि !, स भवतीं लुण्टेत् पीडयेद् वाऽपि' । 'नैव श्रमण ! अहं सर्वथा भयरहिताऽस्मि । किं कदाचिदपि श्रमणस्य ब्राह्मणस्य वैवं भयं भवेत् यत् कश्चनाऽऽगत्य तं प्रहृत्य तत्सकाशाद् ज्ञानं, धर्मं, विचारशक्तिं वाऽपहरिष्यति ? नैव, यत एतत्सर्वमपि तस्य स्वीयम् । स स्वेच्छानुसारमेवैतेषां यत्किञ्चिदपि कस्मैचिद् दद्यात् । एतच्च तथ्यं कमलाया विषये कामकलायाश्चाऽऽनन्दविषयेऽपि यथातथमेव । कमलाया अधरौ सुन्दरौ शोणौ च । किन्तु कमलाया इच्छां विरुध्य तौ चुम्बितुं प्रयततां नाम, ततो माधुर्यस्यांऽशोऽपि नैवोपलभ्येत । यतो माधुर्यं कथं प्रकटयितव्यमिति तौ जानीत एव । भवान् हि योग्यश्छात्रोऽस्ति सिद्धार्थ !, अत एतत् सुतरां शिक्षतां यत् प्रेम याचितुं शक्येत, क्रेतुम्, उपहारतया प्राप्तुं, मार्गे वोपलब्धुं शक्येत; किन्तु कदाऽपि चोरयितुं नैव शक्येत । भवता सम्यक् नाऽवगतं ननु !। भवादृशः सुन्दरो युवा यदीदं नाऽवगच्छेत् तदा तत् करुणास्पदमेव' । सिद्धार्थो नत्वा स्मितवान् – 'भवती सत्यमेव कथयति कमले !, तत् करुणास्पदमेव । सुतरां करुणास्पदम् । नहि नहि, भवत्या मम चाऽधराभ्यां माधुर्यांशोऽपि नैव हारयितव्यः । अतः सिद्धार्थो यदा वस्त्रोपानद्धनादीनि प्राप्स्यति तदैवाऽत्राऽऽगमिष्यति । किन्तु कमले ! किं भवती मे किञ्चन मार्गदर्शनं कुर्याद् वा ?' 'मार्गदर्शनम् ! किमर्थं न ? योऽरण्यात् शृगालानां सहवासाच्च समागतोऽस्ति तादृशस्य वराकस्याऽज्ञानिनश्च श्रमणस्य को वा मार्गदर्शनं नैव कुर्यात् ?' ‘तर्हि वदतु प्रिये कमले ! तानि त्रीणि वस्तूनि शीघ्रतयैवाऽधिगन्तुं मया कुत्र वा गन्तव्यम् ?' 'मित्र ! बहवो जना एतज्ज्ञातुमिच्छन्ति । भवता तु यच्छिक्षितं तदेवोपयुज्य धनमर्जनीयं, ततश्च वस्त्रादीनि प्राप्तव्यानि । अन्यया कयाऽपि विधया दरिद्रो जनो धनं प्राप्तुं नैव शक्नुयात्' । किं भवान् किञ्चन जानाति वा ? ' 'अहं विचारयितुं धैर्यं धर्तुमुपवसितुं च समर्थः' । ५७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy