SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 'न किञ्चिदन्यत् ?' 'नैव । अथवा आम्, अहं काव्यमपि कर्तुं जानामि । यद्यहं भवत्यै काव्यमेकं श्रावयेयं तदा किं भवती मे काव्यं प्रति चुम्बनमेकं वा प्रयच्छेत् ?' 'अवश्यं, यदि भवत्काव्यं मां प्रीणयेत् । किं तत् काव्यम् ?' क्षणं विचार्य सिद्धार्थेनोक्तं - “निजोपवनं गता कमनीया कमला उपवनद्वारि च स्थित एकः कपिशः श्रमणः तत् कमलपुष्पं दृष्टं तेन यदा चकितेन तेन नतं तदा सस्मितं तत् स्वीकृतवती कमला स्वमनसि विचारितवान् श्रमणः कमनीयकमलाकृते कृतं समर्पणं श्रेयो भगवत्कृते कृतात् समर्पणात्" ॥ ___ कमलोच्चैर्हस्ततालं दत्तवती, तेन च तस्याः कङ्कणानि रणरणितानि । 'भवतः कविताऽतीव रमणीया भोः कपिशश्रमण !, तां प्रति चुम्बनप्रदानेन न मे किञ्चिद् विनश्यति' - इति कथयन्ती नयनेङ्गितेन सा तं समीपमाहूतवती । सिद्धार्थेन तद्वदनस्य पुरतः स्वीयं वदनं स्थापितं, तस्याश्चाऽधरयोरञ्जीरखण्डतुल्ययोः स्वावधरौ न्यस्तौ । कमला तं गाढं चुम्बितवती, सिद्धार्थश्च सविस्मयं सोत्तेजनं चाऽनुभूतवान् यदेतावता सा तं कियत् शिक्षितवती, कियच्चतुराऽऽसीत् सा, कथं च तं साऽभिभूतवती पराजितवती आकर्षितवती च, तथाऽस्माद्दीर्घचुम्बनादनन्तरं विविधचुम्बनानां दीर्घा परम्परा कथं तं प्रतीक्षितवती चेति । दीर्घ श्वसन् स तत्रैव स्थिरो जातः । तस्मिन् क्षणे, स्वदृष्टिपुरतः स्वयमेव कस्यचन बोधस्य पूर्णतायाः द्वारोद्धटनेन बालस्येव विस्मितः स सञ्जात आसीत् । 'भवतः काव्यमतीव सुन्दरमस्ति' – कमलोक्तवती । 'यद्यहं धनिकाऽभविष्यं, तदाऽवश्यं तत्कृतेऽहं भवते धनमदास्यम् । किन्तु काव्यं कृत्वा प्रभूतधनार्जनं नितरां कठिनं भविष्यति, यतः कमलाया मैत्रीं यदि भवान् वाञ्छति तदा भवता प्रभूतं धनमर्जनीयमेव' । भवती कथमिव चुम्बति खलु !!' - सिद्धार्थोऽस्फुटस्वरेण कथितवान् । 'तत् तु सत्यमेव । एतेनैव मे वस्त्राणामाभरणानामुपानहां सर्वविधवस्तूनां चाऽभावो नैव भवति । किन्तु भवान् किं करिष्यति ? विचारणात् उपवासकरणात् काव्यरचनाच्चाऽधिकं किमपि कर्तुं न शक्नोति भवान् ?' 'अहं यागस्तोत्राणि गातुं जानामि, किन्तु नाऽहमितः परं तानि गायिष्यामि', – सिद्धार्थोऽवदत् । 'अहं मन्त्रानपि जानामि, किन्तु नाऽहं तान् उच्चारयिष्यामि । अहं शास्त्राणि पठितवान्.....' "तिष्ठतु', – कमला तं रुद्धवती; 'किं भवान् पठितुं लिखितुं च जानाति वा ?' ५८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy