SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धीमन् ! युक्तमेवैतत् भवादृशां विशुद्धबुद्धिस्पृशां सम्यक्सारेतरवस्तुदृशां चारुचारिमोदारवर्यचातुर्यचमत्कृतचतुरविशां, यदेवं तेषु ग्रन्थेषु क्रोडीकृतव्यासः सदभ्यासः । किल शास्त्राभ्यास एव हि सारमसारसंसारे । तद्वतामेव यत्र तत्र तत्रभवता दर्शनात् । किञ्च, अस्तमीयिवांसः खलु ते त्रिभुवनभवनाभोगभासिनः सकलजगज्जन्तुजातामितैकान्तहितानुशासिनः प्रध्वस्ताशस्ततिमिरनिकराः सर्वज्ञदिवाकराः । अचकलच्चाऽविकलं सकलेऽपि क्षितितले कलिकालकालप्रदोषः स्वविलासकरालताप्रागल्भ्यम् । __ अथ च, प्रासरिसारिषुः सर्वतोऽप्यनिवारप्रचाराः प्रचुरतरतिमिरप्रारभाराः । अबोभवुश्च दक्षैरप्यलक्ष्या विशिष्य मोक्षपुराध्वानः । एवं च सति प्रशस्तशास्त्रप्रदीपा एव प्रगल्भायन्ते प्रदीप्रा जगति दुर्गापवर्गमार्गोपदर्शकतया । किञ्च, बाह्यान्धकारनिकुरम्बमात्रोपसंहारकारिणः सहस्रकिरणादप्यतिरिच्यते ह्येष निर्विक्रोष्यबाहीकान्तरतिमिरनिकरापहारकारी शास्त्रविसरः । तथा परिदृष्टपुष्टालोकादिविशिष्टपरिस्थूराविदूरार्थसार्थावगमनालङ्कर्मीणे लोचने अप्यवगणयत्येतदतीन्द्रियेतरवस्तुव्यतिकरप्रबोधप्रत्यलं शास्त्रमण्डलम् । किञ्च, महाचित्रनिधिरयं शास्त्रकोशो विधिवत्प्रदीयमानोऽपि यो विचक्षणैर्दक्षिणशिष्येभ्यो न कदापि क्षयितां शिक्षते, परं सुरक्षितव्य, एव खल्वमर्यादप्रमादादिदस्युभ्यः । तस्मान्निरन्तरं प्रमादपरिहारेण तदवबोधप्रसाधनावधानानुसन्धानविधानैर्भाव्यं विबुधधुरीणैः । तैविना अपहेयोपादेयोपेक्षणीयवस्तुनिकरव्यतिकरे तत्तत्तदुदर्कोपलम्भकतया, तथा विवेचनैकविकलत्वेनाऽक्षय्यमोक्षसौख्यादेः प्रापकत्वेन स्वहितस्य सम्यग्ज्ञानक्रियादेः प्रसाधयितुमशक्यत्वात् । न च तान्यप्रयत्नोपलभ्यानि, तत्तत्तत्प्रसाधनप्रधानसाधनसन्निधानविधानं विना तदध्ययनसाध्यस्याऽसिद्धेः । ___ तत्साधनानि च विशुद्धबुद्ध्याभोगः १, सद्गुरुसमायोगः २, सद्गुरुविनयप्रयोगः ३, पुस्तकप्राप्तियोगः ४, प्रमत्ततावियोगः ५, सततोपयोगः ६, शुद्धयभियोगः ७, देहारोग्य ८भाग्या ९दीनि । दुरापाणि चैतानि । यतो जगत्कर्ममर्मवशादधर्माशर्मबाहुल्येऽस्मिन् कलियुगे प्रतिक्षणं प्रहीयमाणप्रधानमेधादिबलत्वेन क्व तावान् प्राचीनमुनीन्द्रचन्द्रशेमुषीविशेषानुयायी विशुद्धबुद्ध्याभोगः ? अगण्यपुण्यप्रचयपरिपाकिमहिमोपलभ्यः खलु समग्रग्रन्थार्थप्रबोधपटिष्ठविशिष्टतरामितहितनिधिश्रीमद्गुरुसमायोगः । तथा विकुत्स्यातुच्छम्लेच्छादिकृनृपतिततिविध्वस्तानेकवलभ्यादितत्तन्महानगरस्थानेकलक्षणप्रमाणागमादिसदादर्शोच्छेदेन कौतस्कुतस्तावदज्ञानान्धकूपप्रपतत्प्राणिप्रतिहस्तकप्रायप्रशस्तपुस्तकप्राप्तियोगः? तथा तत इतो दृश्यमाननिरुपमानमिथ्याभिमानाविरामाद्युन्मत्तकुनयोपचयप्रधानकुभूपतितत्पत्तिगृहीतोगविग्रहाग्रहग्रहोद्यत्प्रमादानाभोगरोगाद्यनुरोगाद्यनुमेयाभाग्यादिधुर्येऽत्र कलियुगेऽतिदुरापाणि तथाविधस्वास्थ्याप्रमत्ततोपयोगाभियोगारोग्यभाग्यादीनि । ततश्चैवं दुरासदान्यप्यासाद्य कथमप्येतानि नाऽधीयोरन् ये विधिवन्निरवद्या विद्याः, वञ्चितः खलु तैरविबुधधुरीणैः स्वात्मैव तदुत्थोच्चश्रेयोभ्यः । अधीत्याऽपि च ये शास्त्राणि सततानवधारणेन वृद्धिविधुरतया विदधीयेरन् तदनुक्रमाद्धानिभाञ्जि सुशास्त्राणि, ते च समधिकतरं स्वात्मवञ्चनेन वञ्चनीयतामङ्गीचेक्रीयन्ते । त एव हि धन्याः, ३९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy