SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रबुद्धजनमनोमान्या, ये विधाय विधिवत् शास्त्राध्ययनं पुनस्तदवधारणादिना प्रतिदिनं विवृद्धिमेव दधति तानि विदध्युः । तद्विवृद्धिश्च प्राय: पटुतरतदभ्यासव्यासप्रयाससाध्या, सोऽपि प्रायस्तद्विषयोत्साहपूर्व इति प्राहुः प्रबुद्धाः । एषोऽपि गुणिजनप्रष्टैः श्रेष्टिगोष्ठीविधानदधद्बढिमानमुपलभ्यते । अतो बहुगुणत्वादेषाऽपि ज्ञानादिगुणप्रकर्षप्रापकतया परम्परया साधनमेव जेगीयते श्रेयोमार्गस्य । तेन यथासमयमेतामप्यादरिदारिषुर्विदुराः श्रीसर्वज्ञोपज्ञसज्ज्ञानोत्साहादिगुणोपचयहेतुमिति । यत उच्यते - ज्ञानोत्साहो गुणावाप्तिः, प्रागल्भ्यं बहुदशिता । तत्त्वबोधः श्रुतावाप्तिः, साधुगोष्ठीगुणा ह्यमी ॥१॥ किञ्च, इयमेव स्वमधुरिमविधुरितो/धोलोकाधारसुधाभिमाना वसुन्धरावलये विचरद्विबुधततितुष्टये प्रभवति । अतः पापीयध्वं क्षणं दक्षिणाक्षुण्णदक्षणप्रायं सममस्माभिरचतुरवचनप्रपञ्चश्रवणोद्भूतप्रभूततापापहारप्रवणं त्रैवेद्यगोष्ठीपीयूषयूषपूरम् । अथ केचिदहङ्कारमषीशितिमानमात्मन्यादधतो न दरीध्रति तथाविधोज्ज्वलगुणानुरागम् । ते चैवमखर्वगर्वाध्मातमानसा न तामहतीति तान् प्रत्युपदेशलेशः प्रपञ्च्यते । तथाहि - तथाविधमवसरमुपलभ्य विद्वन् ! कथङ्कारं भवद्हृदयगुहायामुद्यच्छास्त्रखरकरनिकरप्रचारेऽपि क्वचित्तत्तद्वचनान्यथानुपपत्त्यनुमेयापहेयाहङ्कारान्धकारप्रचारः । विमरीमृश्यतामचिरस्य मोहस्य लास्यम् । किं युज्यते भवादृशामपि प्रेक्षादृशां हृदयेष्वन्तरुद्यच्छास्त्रप्रकरध्वान्तारातेः किञ्चिद्वस्तुतत्त्वानवबोधावरणमनुमापयदहङ्कारशावरम् ? किञ्च अन्तर्चलद्विनयनयविज्ञानादिगुणतृणभरोद्भूतप्रभूतजाड्यज्वलनमनुमेमीयन्ते तदन्यथानुपपन्नायाः सर्पद्दर्पोद्दामधूमस्फीतताया दर्शनेन प्रबुद्धाः ।। ___आः किमिदं हतविधेर्विततललितमिदं, यद्विवेकिनराणामपि बुद्धितरुष्वेवं गर्वगुर्वविवेकातिरेकोदकप्रकरनिषेधः ? पुरापि के के ह्येकेनाऽप्यनेकाविवेकोत्पादकेनाऽनेन च्छेका अपि नैकलोकनिकायाः कानि कानि नाऽऽचरिकारयिषताऽकृत्यानि ? कृत्यानि वा कानि कानि न व्यसरिस्मारयिषत् स्मयेनाऽनेन विस्मयस्फीतताधायिस्फुरत्तरस्मृतिनदीष्णोरपि? तन्नूनं विधेरेवेदमवध्येच्छाप्रागल्भ्यं परिपोस्फुरीति, तेषु तेषु पदार्थेषु उपपनीपद्यमानानामनुपपनीपद्यमानानां वा तत्तत्तद्गुणागुणानां तथा तथा नियोजने वियोजने वा प्रत्यलं, यद्भवादृशेषु विमलविद्याजलप्रधौतावदातहृदयेष्वप्येवमहङ्कारमषीकृष्णिमावलिप्तता । तथा चाऽवावादीत् श्रीहर्षः कविमचर्चिका - अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥१॥ अथवा कोऽयं विधिर्नाम ? का वा तस्येच्छा ? किं वा तया सेषिद्धयेत ? पुरुष एव हि अनवगतत्रयीतत्त्वतया स्वस्वरूपविवेचनादिविकल: सत्कृत्येषु गजनिमीलकाद्यवलम्बी प्रमादानाभोगादिकुमित्रसम्पर्कवशादवितक्यैवोदकं तत्तदसत्क्रियाप्रवृत्तस्तत्तदुःखफलोपभोगभाजनं बोभूयेत । स एव च यदा श्रीसर्वज्ञोपज्ञप्रशस्तशास्त्रोपदेशप्रदीप्रप्रदीपोपलब्धसमस्तवस्तुसतत्त्वतया सम्यग् विविच्य तद्गुणागुणस्वरूपं ४० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy