________________
तदुपादानहानयोः प्रयायत्येत, तदा समासादयत्येवाऽयमुत्तरोत्तरतत्तच्छुभफलभरभ्राजिष्णुः क्रमात्परमपदसम्पदमपि । यदुच्यते -
तावत्कलयति पुरुषो, हतविधिललितोत्थदुःखसङ्घातम् । चिन्तयति नेति यावत्कोऽहं ? किं मे हितं चाऽन्यत् ॥१॥ इति च विविच्य विबुध्य च, हिताहितप्राप्तिहानियत्नवतः ।
सा नाऽस्ति काऽपि सम्पत्, लुलति न या करतले यस्य ॥२॥ अत: परिज्ञातज्ञेयगुणागुणगरिमाणो विचारचारिमाखण्डपण्डितिमानश्च विचारयन्तां स्वचेतसा, किं चतुराणां चेतश्चमत्कारकारी स्यात् कदाऽपि चेक्रीय्यमाणोऽयमवलेप: ? किञ्च, इह हि दुरन्ते कलिकालविलासे विस्फुरत्प्रबलमोहभूपालकुतूहलोत्तालबलोच्छलत्कोलाहलोच्चालिताखिलमञ्जुलोल्लासिबहुलगुणचक्रवालाकलितवित्रासे कुतस्त्यं तावन्निरवद्यहृद्यचातुर्वैद्यवैशारद्यम् । न हि कोऽप्येवंविधः पुरुषविशेषोऽत्र समीक्ष्यते, यः किल कलयत्यविकलं सार्ववैद्यावबोधविशदिमानम् । यतो गलन्त्येव हि प्रतिकलमधुनातनेषु तमोजनेषु सच्छिद्रभाजनोदरपूरिपूर इव शुश्रूषा-श्रवण-ग्रहण-धारणोहापोहार्थविज्ञान-तर्कविज्ञान-तत्त्वज्ञानलक्षणा अमी मनीषागुणाः । गलत्सु च तेषु तदग्रिमनिदानानि विधौ प्रधानानि विद्यानिधानान्यपि परीस्पृशन्त्येव हि क्रमेणा-ऽपहानिपदवीम् । एवं च क्रमेण हीयमाने विद्यासौन्दर्ये साम्प्रतकालीनेषु जनेषु ज्ञानलवा एव परिपोस्फुरति । तथाऽपि योऽचतुरचेतस्को विद्याघ्रातमात्रतयैवाऽमानाहङ्कृतिभाजनमानुषङ्गरङ्गद्वङ्गसंसर्गी सञ्जायते, नाऽर्हत्येवाऽयमप्रतिमप्रामाणिकश्रोत्रियपरिषदि प्रवेशम् । भवते च स खल्वदृष्टाश्रुतस्वीयज्ञानाणुताप्रदायि-पुरातनानेकमौनीन्द्रवृन्दोदारचित्रचरित्रः कूपमण्डूक इव बहुश्रुतसदस्सु हास्यास्पदत्वमिति । ततो विचक्षण ! समीक्षस्व क्षणमान्तरचक्षुषा, कस्ते नाऽज्ञानातिशयो, येनैवं दुर्द्धरदर्पोद्धरकन्धरीभवसि । धीमन् ! नयस्व क्षणमेकं स्वीयमानसं स्थिरस्थेमानम् । अवधारय वैबुध्यधुराधरणधीरोदारपुरातनानेकमुनीन्द्रचन्द्रो-दग्रविद्याशक्त्यादिसौन्दर्यम् ।
तथाहि - इह हि अहमहमिकावनम्रकम्रनिःशेषवृन्दारकासुरनिकरेश्वराखिलविपुलावलयप्रौढपरिवृढ श्रेणिशीर्षावलीशेखरांसङ्गिरत्नोकरोल्लासिरश्मिमण्डलीमिलदविरलपदयुगलनखोन्मिषत्सिन्दूरपूरारुणरुचिरोचिनिकरकर्बुरिताम्बरोदरश्रीमज्जिनपतिगदितोत्पादव्ययध्रौव्याद्यनन्तधर्मात्मकाशेषजगद्व्यवस्थाप्रकाशकामलपदत्रयीसमाकर्णनानन्तराविर्भवत्प्रतिभाप्राग्भारप्रकर्षप्रबुद्धाशेषभुवनान्तर्वर्तिपदार्थसार्थोपनिषद्याथातथ्यगणधरपदवीप्राप्तप्रतिष्ठश्रीमद्गौतमप्रभृतिगणपतयोऽन्तमुहूर्त्तमात्रकालेन चराचरोदरविचरन्मोहान्धकारसम्भारसंहारोद्यत्तरुणतरणिकरनिकरानुकारिभिः शेषज्ञेयोपनिषत्परिज्ञाननिधानप्रधानतरानन्तार्थाक्षय्यकोशात्मद्वादशाङ्गीयशःस्तम्भसमुत्तम्भनं विरचयाञ्चक्रुः, तेष्वेव व्यलासीद् विश्वत्रयानुत्तरावबोधसम्पत् । तदनु पुनरवलम्बिततरतमभावप्रज्ञाविभवाद्बहवोऽप्यभूवन्नित्यादिप्रज्ञाप्रकर्षप्रतिहताशेषबुधम्मन्यविद्याखर्वगर्वसर्वस्वाः सक्षुभिक्षुक्षितिपतयो यतिपतयः । ये हि किलैकपदश्रवणतोऽप्यविकलं कलयाञ्चकुर्ग्रन्थकोटीकोटीरपि । कः खलु परिमितजीवितैकजिह्वो निजशेमुषीसमुन्मेषैः सुरगुरूयमाणोऽपि कोष्ठकबुद्धिबीजबुद्ध्याद्यनेकप्रकारप्राचीन
४१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org