SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ परमसौजन्यधारिणां .दुर्गस्वर्गापवर्गमार्गप्रचारिणाम् अनवद्यविद्याविलासामराचार्यानुकारिणां सुविचारिणां सदाचारिणां सङ्गमः । गमयत्येवाऽयमनुत्तरो ह्युत्तरोत्तरोत्तमानेकगुणविवृद्धिहेतुः सेवधिरिव विधिवद्गुणिजनसन्निधिः परमसुखसम्पदं पदां विनयादीनां नरम् । किं नोक्तं चतुरचेतश्चमत्कारकारिहारिप्रचुरवाक्प्रबन्धेन श्रीमता हर्षमिश्रेण सकलकविकुलप्रबलमदगदौषधे नैषधे नाम महाकाव्ये, तथा हि - प्राणप्रियप्रणयिनी - प्रवरगुणगणप्रगुणनप्रकटितप्रणयप्रकर्षं राजहंसावतंसं प्रति प्राह नल ईलापतिः भृशतापभृता मया भवान्, मरुदासादितुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सन्निधिः ॥१॥ तद्युक्तमेवैतत् सकलकलन्दिकाकलनाविकलकौशलशालिनां विमलविनयविवेकाद्यनणुगुणमालिनां शुभवतां भवतां सङ्गमेन यदद्यामन्दानन्दसन्दोहास्पदं भवामहे वयम् । किञ्च भो ! यः खलु प्रबलकलिकालानुभावप्रसरद्दोषचक्रवालोच्छलद्बहुल धूलीपटलध्यामलितान्तराले सकलेऽपि क्षितिमण्डलतले दुर्लभतरमुपलभ्याऽपि प्रथितप्रवीणप्रकरप्रार्थितप्रगुणगुणगणसङ्गमं गुणिजनसङ्गमं तत्तद्गुणानभिज्ञतया गुणिमत्सरितया वा न प्रकृष्टप्रमोदामोदमेदुरतां बिभर्त्ति स खलु न प्रेक्षाचक्षुषां चक्षुषा प्रेक्षणीयः । यतो गुणानुराग एव मुख्यं लक्षणं वैचक्षण्यस्य, गुणानुरागश्च गुणवत्प्रेक्षणक्षण एवाऽक्षुण्णप्रमोदप्रकटनेनैव लक्ष्यः खलु दक्षैरक्षोदीयान् । नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥ १ ॥ Jain Education International - तदद्य बन्धो ! कृतकृत्याः स्मोऽनभ्रवृष्टिन्यायेनोपपन्नगुणवतां भवतां सङ्गमेन । परं पीयूषेणेव तोषयितुमिच्छामः श्रवणौ भवन्निवासावासग्रामग्रामणी - ग्रामनामसंश्रवणेन । कुतो वा विपुलविपुलामण्डलमण्डलाखिलमण्डलमण्डलाखण्डलाम्बरान्मण्डलादत्र युष्मत्समागमः । अथ हंहो धीधनाः ! कै: कैः प्रशस्तशास्त्रशस्त्रैर्निहथ निखिलप्राणिप्रकरप्रेष्यताप्रदायिप्रसरद्विक्रमक्रमोद्रेकभाजं मोहराजम् ? दक्षिणा ! क्षमध्वे लक्षणे विचक्षणाक्षोदीयोऽक्षुण्णाक्षामक्षोदम् ? कस्मिन् वा ऐन्द्र १ - जैनेन्द्र २ - सिद्धहेमचन्द्र ३ - चान्द्र ४ - पाणिनि ५ - सारस्वत ६ - शाकटायन ७ - वामन ८विश्रान्त ९ - बुद्धिसागर १० - सरस्वतीकण्ठाभरण ११ - विद्याधर १२ - मुष्टिव्याकरण १३- कलापक १४भीमसेन १५-शिव १६- गौड १७ - नन्दि १८ - जयोत्पल १९ - जयदेवा २० - दिव्याकरणेष्वाम्नातिनो भवन्त: ? । कं कं वा साहित्यशर्करारसं स्वादं स्वादं परमानन्दपीयूषे निमग्ना भवच्चित्तवृत्तिः ? तथा आटीकन्ते भवन्तः सुघटनाटकपेटकाभ्यासपटुपाटवप्रकटनैः स्फुटं नाटयन्तः कीर्त्तिनटीं नाट्याचार्यतासण्टङ्कम् ? । कैः कैरलङ्कारवारैरलङ्कारवारैरिव अलं समलङ्कृतं भवद्वदनम् । आस्ते तावत्कर्कशतरतर्कवितर्कसम्पर्ककर्कशधीत्वम् ? केषु केषु वा जैन - जैमिनि - सुगत - कणभक्षसाङ्ख्याक्षपादादिमतसम्बन्धिनानातर्कग्रन्थसन्दर्भेष्वधीतिनो यूयम् ? केषु केषु चाऽपरेष्वपि निश्छद्मच्छन्दोज्योतिःप्रभृतिप्रशस्तशास्त्रप्रकरेष्वधीतिनो भवन्त इति ? ३८ For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy